________________
वैयाकरणभूषणे तण्डुलः पचति चैत्र इत्यादावप्यन्वयो भवेदिति । तम । विव. रणस्य पाकमित्यशब्दार्थकर्मत्वविवरणवदुपपत्तेः । तथाहि । चैत्रः पचतीत्यत्र स्वजनककृतिसम्बन्धेन पाकश्चैत्रे विशेषणम् । तथा च चैत्र: पाकं करोतीत्यत्र द्वितीयाख्यातयोरिव कुमोपि संसर्ग एवार्थः । अन्यथा द्वितीयया आख्यातेन च कर्मत्वाथयत्वयोरपि विवरणात्तयोरपि वाच्यतापत्तेः। कृतित्वादिप्रकारकबोधस्तु मानस एवोत्तरकालिकः । प्रश्नोपि किं करोति इत्यत्र यदि किंशब्दस्य क्रियाविशेषणत्वमादाय कीदृशो यत्न इत्येवंरूपः । यदि वा कर्ममात्रविषयः । उभयथापि न तदुत्तरं यत्नस्याख्यातार्थत्वसाधकम् । पाकवाचकस्यैव धातोस्तद्विषयकयत्ने लक्षणया पाकविषयक इति बोधोपपत्तेः स्वातन्येण शक्तिसिद्धचसम्भवात् । एवंविधप्रश्नस्यासार्वत्रिकत्वात् कर्मप्रश्नइच पाकमात्रबोधनेनोपपन्नः । अत एव पाकमित्यपि कादाचिकमुत्तरं सङ्गच्छते । तण्डुलः पचतीत्यादौ तण्डुलपकारकपाकविशेष्यकबोधापत्तिरूपं बाधकं विशेष्यतासम्बन्धेनाभेदातिरितसंसर्गकप्रातिपदिकार्थप्रकारकबोधे निपातसुवादिजोपस्थिते. विषयतया हेतुत्वकल्पनेनैव नास्तीति कतिसंसर्गकचैत्रादिविशेव्यकबोधे न दोषः । न च धात्वर्थप्रकारकबोधस्य कर्मादिरूप. नामार्थे ऽभावाद्धात्वर्थप्रकारकबोधे तिडादिजन्योपस्थितेहेतुत्वं कल्पनीयं, तथा च न चैत्रे तदन्वय इति वाच्यम् । धात्वर्थप्रकारकबोधे प्रथमान्तजन्योपस्थितेरेव लाघवेन हेतुत्वात् । अन्यथा धात्वर्थप्रकारकबोधे तिबादिजन्योपस्थितिविषयतया हेतुः । आख्यातार्थभावनामकारकबोधे प्रथमान्तपदजन्यापस्थितिहेतुरिति कार्यकारणभावद्यमाख्यातस्य शक्तिश्च कल्प्येत्यतिगौरवं स्यात् । तस्मान काख्यातस्य कृतिः कर्माख्यातस्य फलं या