SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भास्वर्थनिर्णयः । छ । अत एव कर्तृजन्यतावच्छेदकं लध्वपि घटत्वादिकमपहाय कार्यत्वं कल्प्यते । किं चास्माकं यत्नस्यापि व्यापारावशेषत्वेन तलक्षणा सर्वथा श्रुत्यर्थात्यागाद्वरं भवतां रथादिव्यापारे लक्षणा सर्वथा श्रुत्यर्थत्यागाज्जघन्या । अपि च दावाभिर्वनं दइतीत्यादौ यत्नसम्बन्धग्रहं विनापि व्यापारबोधान्न भवद्रीत्या लक्षणा युज्यते । अगृहीताया वृत्तेरनुपयोगात् । अन्यथा अगृही शक्त्यादिभ्योपि बोधप्रसङ्गादिति वदन्ति । वस्तुतस्तु कृतित्वमपि शक्यतावच्छेदकं तेन रूपेणापि बोधात् । तथा फूत्कारत्वादिकमपि । अत एव तत्तद्रूपेणैव शक्तिरिति प्रागुक्तम् । वक्ष्यते च । एवं च व्यापारो भावनेति पूर्वोक्तमपि व्यापारोपि वाच्य इत्यभिप्रायकं न तु कृतित्वं नावच्छेदकामित्याभिप्रायकामीति भूमितव्यम् । तथापि च यथा न नानार्थत्वं तथोक्तं प्राक् । एवं च बोधस्य व्युत्पन्त्यनुसारित्वात्तथाव्युत्पन्नस्य कृतित्वरूपेणैव बोधो जायतइति न कश्चिद्दोष इति विभावनीयं सूरिभिः । तस्मात्फळव्यापारयोरिति प्रतिज्ञातफलवाचकत्वसाधनायैव कृञोकर्मकतापत्तेरिति ग्रन्थ इति विभावयामः । अथ वा व्यापारोभावनासवेत्यादिना साधितमपि विवरणानुरोधेन व्यापारवाचकत्वं केवलफलवाचकतावादिनिरासेन समर्थयितुं तन्मतनिरासनायायं ग्रन्थः । तथाहि । लडादौ भावना वाच्यैव न, तत्मकारकशाब्दबोधस्य विवादग्रस्तत्वात् । यत्वाख्यातस्य यत्नो वाच्यः यत्नार्थककरोतिना विवरणात् व्यवहारादिवद्वाधकं विना विवरणादपि व्युत्पत्तेः किंकरोतीति यत्नप्रश्ने पचतीत्युसरस्य यत्नार्थकत्वं विनानुपपत्तेश्च । किं च फलमात्रस्य धात्वर्थत्वे तस्यैव नामार्थेन्वयः स्यात् । न चेष्टापत्तिः धात्वर्थप्रातिपदिकार्थेयोर्भेदेन साक्षादन्वयस्यान्युस्यमत्वात् । अन्यथा PN ** ४३
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy