SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४२ वैयाकरणभूषणे | विना स्वार्थफलव्यधिकरणव्यापारवाचित्वस्यैव तत्त्वात् । यती प्रयत्नइत्यस्य फलं नार्थ इति नानुपपत्तिः । घटं करोतीत्यत्रापि निर्वत्यकर्मत्वान्न यगादेः कर्मकर्त्तर्यनुपपत्तिरिति । तस्मात्कृणो यत्नत्वमेव वाच्यतावच्छेदकामित्यत्र मानाभावः । लाघवस्य पूर्वमेव निरस्तत्वात् । न च कर्तृजन्यत्वाजन्यत्वप्रतिसन्धानात्पटाङ्कुरयोः कृताकृतव्यवहारानुपपत्तिरेव मानम् । बीजादिना अङ्कुरः कृत इति तत्रापि व्यवहारदर्शनात् । रथो गमनं करोतीति विवरणस्याचेतनेपि दर्शनाच्च । यत्तु व्यापारमात्रस्य कृवर्थत्वे कारकमात्रं कृर्तृपदार्थः स्यादिति । तचुच्छम् । स्वतन्त्रः कर्तेति सूत्रो क्तरीत्या धातूत्पात्तव्यापाराश्रयत्वरूपं स्वातन्त्र्यमेव कर्तृत्वमिति वक्ष्यमाणत्वेन शास्त्रे कर्तृपदार्थत्वस्य प्रायेण सर्वकारकाणामिष्टत्वात् । लौकिकप्रयोगे च कर्त्तेत्यत्र कृञो यत्ने निरूढलक्षणेति वदन्ति । तस्मात् कृञो विवरणानुरोधान्नाख्यातस्य यत्नमावाचकत्वसिद्धिः किंच कृणो यत्नमात्रशक्तिग्रहवत एव तादृशविवरणप्रश्नो न तु व्यापारशक्तिग्रहवत इति न तौ कृतित्वेन वाच्यतायां प्रमाणम् । प्रयोज्य प्रयोजकदृद्धयोस्तादृशमनादिविवरणं कृञ एव च प्रश्नोत्तरभावं शृण्वतां बालानां कृतावेव शक्ति. ग्रहो भवतीत्यपि विना प्रमाणं शपथमात्रपर्यवसन्नमेवेति द्रष्टव्यम् । कथं तार्ह पचतीत्यत्र यत्नत्वप्रकारकः पाकानुकूलयत्नानुभव इति चेत् । अत्र प्राञ्चः । धातुत्वमेव जातिः शक्ततावच्छेदिका । संज्ञाशब्दानां जातिवाचकत्वात् । व्यापारत्वं च वाच्यतावच्छेदकम् । क चिद्यन्नत्वप्रकारक बोधस्तु शक्तिभ्रमाल्लक्षजया वा । ननु तवाप्येतादृशस्थले लक्षणावश्यकत्वे किं विनिगमकं व्यापारत्वं वाच्यतावच्छेदकमित्यत्रेति चे, त्सत्यम् । व्यापारत्वस्याधिक संग्राहकत्वेन तस्यैवावच्छेदकताया न्याय्यत्वा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy