SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४० वैयाकरणभूषणे तया तथा प्रयोगस्य दुष्परिहरत्वादिति समाधिरुभयेषां तुल्य एव । स्थाली पचतीतिवदिष्टापत्तेश्च । ज्ञाधातोः फलं विषयगतावरणनिवृत्तिस्तदनुकूलोत्पादना ज्ञप्तिरेव । अतः सैव धात्वर्थः । तथा च चैत्रो जानातीत्यत्र चैत्राभिन्नाश्रयिका आवरणभङ्गानुकूला ज्ञानक्रियेति बोध इति पक्षे च न शङ्कापि । अतः | यतः कृञो यत्नमात्रमर्थो नेष्यते अत इत्यर्थः । कर्मवत्स्यादितिपदेन कर्मवत्कर्मणा तुल्यक्रिय इति सूत्रं लक्ष्यते । अयं भावः । यत एतस्योत्पादनार्थकता अतः क्रियते ओदनः स्वयमेवेति यगादयोप्युपपद्यन्ते । अन्यथा यत्नस्य कर्तृनिष्टत्वेन कर्मस्थभावकत्वाभावाद्यगादयो न स्युः । अन्यथा यत्यते घटः स्वयमेवेत्यपि स्यादिति । यद्वा । ननु जानातीच्छत्यादिवत्कारकानिर्णये वक्ष्यमाणरीत्या विषयत्वादिफळवाचित्वेन सकर्मकत्वसम्भवात्कृञ उत्पत्तिवाचकत्वाभ्युपगमो मुधैनेत्याशङ्कां मनसि निधायाह । अत इति । यत उत्पत्तिरपि कृतोर्थ एवेत्यर्थः । अपिभिन्नक्रमः कर्मकर्त्तर्यपि यगादि स्यादित्यर्थः । अन्यथा | उत्पत्त्यवाचकत्वे । ज्ञायते दृश्यते इतिवत् कर्मणि तत्सम्भar कर्मकर्त्तरि तन स्यादिति भावः । तदेवाह । दृशे - रिति । इदं च ज्ञानादिवाचकोपलक्षणम् । तथा क्रियते घटः स्वयमेवेत्यपि न स्यात् । कर्तृस्थभावकत्वाविशेषादिति दिक् ॥ ६ ॥ नन्वेवं कुमादेवि जानात्यादेरपि विषयावच्छिन्नावरणभङ्गादिफलवाचकत्वमभ्युपगन्तव्यम् । अन्यथोक्तदोषापत्ते, स्तथा च ज्ञायते घटः स्वयमेवेत्यपि स्यादेव स्याच्च ग्रामो गम्यते स्वयमेवेत्यादिकम् । कर्मस्थभावकत्वाविशेषादित्याशङ्कां मनसि कृत्वाह ।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy