SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। गच्छेदित्यादौ स्वत्वपितृत्वदारत्वाननुगमपि विशिष्य सर्वानतिप्रसक्तबोधकत्वदुपपत्तेरिति समासशक्तौ वक्ष्यामः । ननु फलावच्छिन्नल्यापारवाचित्वादेव धातूनां सकर्मकत्वमिति वददिराप केवलव्यापारवाचकत्वमकर्मकत्वं सूचितमेवेति चेन । एवं हि केवलव्यापारवाचकनाआदेरकर्मकता स्यान्न स्थाच्च सकर्मकत्वमिति । ननु प्रत्ययार्थफलव्यधिकरणव्यापारवाचित्वमेव सकर्मकत्वमस्तु प्रत्ययार्थफलाश्रयत्वमेव च कर्मत्वमतो न कश्चिद्दोष इति चेन्न । घटं भावयति एधयतीत्यादिहेतुमण्णिजन्तसकर्मकेषु तत्कीण चाव्याप्तेः । तत्र फलस्यान्वयव्यतिरेकाभ्यां धातुलभ्यत्वेनान्यलभ्यत्वान्मानाभावागौरवाच्च प्रत्ययार्थत्वासम्भवादिति दिक् ॥५॥ अर्थप्रकाशनपुरः सरं केवलयत्नार्थकतायां दूषणान्तरमाह। किन्तूत्पादनमेवातः कर्मवत् स्याद्यगाद्यपि । कर्मकर्तर्यन्यथा तु न भवेत्तद् दृशेखि ॥ ६ ॥ उत्पादनम् । उत्पतिरूपफलसहितम् । न तु केवलयत्नमात्रं व्यापारमानं वा । अत्र ओर्थ इत्यनुषज्यते । ननूत्पादर्यतीत्यस्योत्पत्तिं करोतीति विवरणमनन्वितं स्यात् । उत्पत्तेरुत्पत्त्यभावात् इति चेन्न । यत उत्पत्तिराद्यक्षणसम्बन्धः स च क्षणरूप इति तस्योत्पत्तेः सुलभत्वादुत्पादना मुलभैव । तवापि यतते यत्नं करोतीत्यादावनुपपत्तितादवस्थ्याच्च । न. न्वेवं जानात्यादेः सकर्मकत्वाय ज्ञानफलाउनुकूलव्यापारवाचकत्वं वाच्यं तथा च चक्षुरादिकं जानातीति स्यात् । उत्पादनाया आत्मनीव चक्षुष्यपि सत्वादिति चेन । मनो जानातीति प्रयोगोपपत्तये जनकव्यापारे लक्षणाभ्युपगमे तवापि व्यापारव.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy