SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । फलाभावेन धात्वर्थतावच्छेदकफलाश्रयत्वरूपकर्मत्वासम्भवादिति निरूपितमाख्यातवादशिरोमणौ । एवं च फलमात्रार्थकत्वात्सकर्मकत्वाभावे कर्मणि लकाराद्यनापत्तिः । यतु जानात्यादौ सकर्मकत्वव्यवहारो भाक्त इति । तन्न । व्यवहारस्य भाक्तत्वेपि कर्मणि प्रत्ययासम्भवात् । फलावच्छिन्नव्यापारवाचके - भ्य एव कर्मप्रत्यय इति तत्रैवांक्तेः । न च वैयाकरणानां यत्र सः कर्मकत्वव्यवहारस्तेभ्य एव कर्मप्रत्यय इति नियम इति वाच्यम् । भाष्यकारादिव्यवहारस्य विशिष्य सर्वत्राभावात् । अस्मद्वयवड़ारस्यातिप्रसक्तत्वात् । तच्च सविषयार्थकानां विषयतयान्त्रयवतामेव सकर्मकत्वं यत्यादिधातूपस्थापितयत्ने न विषयत्वेनान्वयः किं तूद्देश्यत्वेन अत एवाभुञ्जानेपि भोजनाय यततइति प्रयोग इति । तन्न । एवं हि कर्मणि प्रत्ययोत्पत्तावनुगतनियामकालाभप्रसङ्गात् । विष्णुं यजते विष्णुर्यष्टव्य इत्यादौ चतुर्थ्यर्ध्यविहितद्वितीयादेरुद्देश्यत्वेनैवान्वयबोधकत्वाद्यजधातोरप्य कर्मकत्वापत्तेश्च । उद्देश्यताख्यविषयतया विष्णुयोगविषय एवेति चेद्भोजनमपि यत्यर्थस्य तथैवेति स्यादेव यजिवद्यत्यादेः सकर्मकत्वात्कर्मणि प्रत्ययः येन च सविषयार्थकेषु विषयितयान्वयबोधकद्वितीयार्थे जाततृतीयया तस्यैव बोधनात्पश्वादिद्रव्यस्य तथान्वयसत्वा त्स्यादेव सकर्मकत्वमिति वाच्यम् । एवमपि विष्णोर्धात्वर्थकमत्वाभावेन तस्मिन् द्वितीयातव्ययकाराणामभावापत्तेः । अन्यथा भोजनाय क्रियतओदन इत्यत्र भोजनं, मोक्षाय हरं भजे इत्यत्र मोक्षमित्यापत्तर्युर्वारत्वात् । न चैवमपि कर्मसम्प्रदानयोः करणकर्मत्वे वाच्ये इति संज्ञाविधानसामर्थ्यादसत्यपि कर्मत्वे द्वितीयादिकं स्यादिति वाच्यम् । कर्मसंज्ञाविधानान्यथानुपपच्या कर्मप्रत्ययसिद्धावपि धातोस्तदर्थे सकर्मकत्वाभावेन तस्मि ३७ -
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy