SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३६ वैयाकरणभूषणे देः । अन्यथा सुपामेव घटादौ शक्तिः घटादिबोधे तत्तत्प्रकृतिसमभिव्याहारस्य हेतुत्वान्नातिप्रसङ्ग इत्यस्यापि दुर्वारत्वापत्तेः स्पन्दत्यागो गमनमित्यादेरविशेषापतेरुक्तत्वाचेत्यादिभिर्दूषितप्रायं तथाप्युक्तोपपत्त्यैव कृणादेरपि फलवाचकत्वं साधयन्केवलवाचकत्वं सर्वनैयायिकाभ्युगतं निरस्यति । कम इति । सविषयमात्रार्थोपलक्षणमिदम् । यत्नः यत्नमात्रं, किन्तूत्पत्यादि फलमपीत्यर्थः । भयं भावः, यती प्रयत्नइतिवत् यत्नार्थकतायां कृञोकर्मकता स्यात् । अन्यथा वायुर्विकुरुते सैन्धवा विकुर्वते इत्यादिप्रयोगदर्शनाद्यथाश्रुते ऽसङ्गतिः । अत एव " धातोरर्थान्तरे वृत्तेर्धा वर्थेनोपसंग्रहादि" त्याद्यर्थविशेषान्तर्भावेणाकर्मकत्वसकर्मकत्व विवरणं साधु सङ्गच्छतइति । नन्वेवं व्यापारार्थकत्वस्येव यत्नार्थकत्वस्याप्य प्रयोजकतया नेदमकर्मकतायां प्रयोजकं किं तु फलसमानाधिकरणव्यापारवाचित्वमेव । न चेह तदस्तीति नातिप्रसङ्ग इति चेन्न । एवं हि यतेरप्यकर्मकत्वानापत्तेः । यत्किञ्चिदुत्पत्तिजनक यत्नवाचकत्वस्योत्पत्त्यादिफलावाचकत्वस्य चोभयोरप्याविशेषात् । स्वार्थफलसमानाधिकरणव्यापारवाचकत्वरूपाकर्मकत्वस्यास्माभिरभ्युपगमेपि केवलव्यापारवाचकत्वरूपस्य तस्य भवद्भिरभ्युपगमा त् । यद्वा । अकर्मकतापत्तेः । सकर्मकतानापत्तेरित्यर्थः । तथाहि । अस्मद्रीत्या स्वार्थफलव्यधिकरणव्यापारवाचित्वं भवद्रीत्या फळविशिष्टव्यापारवाचकत्वं हि सकर्मकत्वम् । अन्यथा स्पन्देरपि तदापत्तेः । तच्च कृञादेर्न स्यात् । त्वन्मते द्विष्यादेर्देषज्ञानेच्छाकृतिमात्रवाचकत्वात् । अत एव पटं जानाति इच्छति कुरुते चैत्रो मैत्रेण ज्ञायते इष्यते क्रियते वा घट इत्यव कर्मप्रत्ययेन यथायथं विषयित्वं विषयत्वं चोच्यते
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy