SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ वात्पर्यनिर्णयः । विभागजनकत्वात् । तथा च गमनं त्याग इत्यनयोरविशेषापतिः । एवं गच्छतित्यजतीत्यनयोरपि । न्यायरीत्या फलस्य भानाभ्युपगमेन विशेषोपपादने तु घटादिपदे घटत्वस्यापि तथैव भानोपपत्तेरवाच्यतापत्ताचा कृत्यधिकरणोच्छेदापत्तिः । तस्माच्च पच्यते तण्डुलः स्वयमेवेत्यादिकं कर्मस्थभावकानामेव कर्मकर्त्तरि यगादिविधानात् । न चाग्निसंयोगरूपव्यापारस्य धात्वर्थस्य कर्मनिष्ठत्वान्नानुपपत्तिरिति वाच्यम् । तथा सति पच्यते ऽग्निः स्वयमेवेत्यस्याप्यापत्तेः । न च कर्मवत्कर्मणातुल्यक्रिय इत्यनेन धात्वर्थजन्यफलाश्रयाणामेव कर्मवद्भावविधानातण्डुलानां ताहशविक्लित्तिमत्वाद्भवति तथा प्रयोगोग्नेस्तु तदाश्रयत्वाभावानातिप्रसङ्ग इति वाच्यम् । एवं हि प्रावरणाद्यर्थं पटमुत्पादयति चैत्रे प्रावरणाय पटे यततइतिवचतते पटः स्वयमेवेत्यस्याप्यापत्तेः यत्नजन्योत्पत्तेः पटे सत्वात् । अन्यथा क्रियते पटः स्वयमेवेत्यपि न स्यात् । सकर्मकत्वाभावादत्रातिदेशो न प्रवर्त्तत - इति चेचदेव तु भवन्मते दुर्वचम् | स्वार्थव्यापारजन्यफलकत्वं फलजनकव्यापारवाचकत्वं वात्रापि कर्त्रादिवदक्षतं स्पन्द्यादिसाधारणं चेत्यादि वक्ष्यते । कुतो वातिदेशाप्रवृत्तिः स्वकर्मचिरहेण कर्मणातुल्यक्रियत्वाभावादिति चेन्न । कर्मत्वस्यापि त्वन्मते दुर्वचत्वात् । धात्वर्थजन्यफलशालित्वस्य गमेः पूर्वस्मिन्देशे स्यजेरुत्तरस्मि, रस्पन्देः पूर्वपरयोर्यत्यादेर्विषये चातिमसत्वाद । यतु स्वार्थान्वितप्रत्ययार्थ फळव्यधिकरणव्यापारवाचकत्वमेव सकर्मकत्वं कर्मत्वमपि धात्वन्वितप्रत्ययबोध्यफलवत्वमेव । प्रत्ययजन्यसंयोगबोधे गम्यादेविभागबोधे त्यज्यादेः समभिव्याहारस्य हेतुत्वाच्च नोक्तदोष इति । तन 1 एवं अन्वयव्यतिरेकाभ्यां गम्पादेरेव संयोगादिफले शक्तिसि ३५
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy