SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ १२ वैयाकरणभूषणे तदनुकूला एककृष्णाभिनाधायिका तीता भावनेति । पच्यते ओदनः सयमेवेत्यत्र चैकीदनामिनाथयिका पाकानुकूला भावनति बोधः । इत्थमन्यत्राप्यूयम् । यथोचितमिति । अननु । गतमेव तत्तद्वचनानुसारेणेयः । वस्तुत: सकर्मकधातुसमभिव्याहृतभावसाधारणविधिविधेययचिण्त्वेन कर्मयोतकसेति बोध्यम् ॥ ४॥ ... अथ सूचीकटाइन्यायेन सोपपत्तिकं वाक्यार्थमुपवये फलव्यापारयोरिति प्रतिज्ञातं धातोापारवाचकत्वं व्यवस्थापयति ॥ व्यापारो भावना सेवोत्पादना सैव च किया । कत्रो ऽकर्मकतापत्तेन हि यत्नोर्थ इष्यते ॥५॥ पचति पाकमुत्पादयति पाकानुकूला भावनेत्यादिभावना. वाचकपदविवरणात्सा वाच्यैवेति भावः । व्यापारपदं फूत्कारादीनामयत्नानामपि वाच्यतां बोधयितुम् । अत्र नैयायिकाः। व्यापारो वाच्य इत्ययुक्तम् । व्यापारत्वस्योपाधित्वेन शक्यतावच्छेदके गौरवात् । फूत्कारत्वादेरपि गुरुत्वादननुगतत्वाच नावच्छेदकत्वम् । किं तु कृतित्वस्यैव जातिरूपतया लाघवेन शक्यतावच्छेदकत्वौचित्यात्कृतिरेव वाच्या वक्तव्या । किं च । करोतेयत्नार्थकत्वं तावदावश्यकम् । यत्नजन्यत्वाजन्यत्वप्रतिसन्धानात्पटाछुरयोः कृताकृतव्यवहारात् । तदुक्तमाचार्यैः । कृताकृतविभागेन कर्तृरूपव्यवस्थया । यत्न एक कृतिः पूर्वा परस्मिन्सैव भावनेति ॥ कृतित्वस्यैव लाघवेन शक्यतावच्छेदकत्वौचित्याच्च । व्यापारस्य कृर्यत्वे च कारकमात्रं कर्तपदार्थः स्यात् । करोत्यर्थभूताश्रयस्यैव कपदार्थत्वात् । इत्थं च
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy