________________
धात्वर्थनिर्णयः। यत्नार्थककरोतिना विवरणात किं करोतीति यत्नप्रश्ने पचती. त्युत्तरस्य यत्नार्थकत्वं विनानुपपत्तेश्च यत्न एवार्थः । अत एवं पचतीत्यत्र यत्नानुभवः सर्वसिद्धः सङ्गच्छते । नन्वेवं कथं रथो गच्छतीत्यादि प्रयोगः । तत्र यत्नस्य बाधादिति चेन्न । अनु.. कूलव्यापारे लक्षणया प्रयोगात् । विद्यते इत्यायनुरोधादाश्रयत्वे एव वा लक्षणा । तथा च गमनाश्रयबोध एव तत्र । अत एवान्यदीयगमनानुकूलनोदनादिमति न गच्छतीति प्रयोग इति । तस्मायापारो वाच्य इति मतं न सम्यगित्याहुः । अत्र वदन्ति । लक्ष्यतावच्छेदकत्वस्येव शक्यतावच्छेदकत्वस्यापि गुरुणि स्वी. कारे बाधकाभावः । तयोर्वैषम्ये बीजाभावात् । अथ कारणतावच्छेदकत्वप्रतियोगितावच्छेदकत्ववच्छक्यतावच्छेदकत्वं स्व. रूपसम्बन्धविशेषः स च सम्भवति लघौ गुरौ न कल्प्यते । अत एव लघुर्धर्म एव कारणतावच्छेदका कल्प्यते । शक्यतावच्छेदकत्वं च स्वरूपसम्बन्धविशेषो न लक्ष्यतावच्छेदकत्वमिति चेन। स्वरूपसम्बन्धो यदि तत्तत्स्वरूपं तदा गुरुधर्मस्वरूपाणामपि सत्त्वात्किमनुपपन्नम् । अथातिरिक्त, स्तदापि तद्वल्ल. क्ष्यतावच्छेदकत्वमपि स्वरूपसम्बन्धविशेष इति कथं गुरुधर्मेषु तत्स्वीकारः । वृत्तिज्ञानकार्यतावच्छेदकत्वस्योभयत्रापि तुल्यस्वात् । किंच, गुरुधर्मेष्ववच्छेदकत्वास्वीकर्ता तदभावः स्वीकार्यः, तद्वरमवच्छेदकत्वस्वीकार एव । भावकल्पनायां लाघवात् । अन्यत्र क्लुप्ताभावस्य सम्बन्धमात्रं कल्प्यते लाघवादिति चेत् । अन्यत्र कल्प्यमानावच्छेदकत्वस्यैव सम्बन्धः स्वीक्रियता ला. घवाद । वस्तुतस्तादृशस्वरूपसम्बधस्यातिरिक्तस्य स्वीकारे प्र. माणं सुधीभिश्चिन्तनीयम् । अत एवावच्छेदकत्वमन्यूनानतिरिक्तवृत्तित्वमिति बदन्ति । तदपि. गुरुधर्मे निर्वाधम् ।