________________
धात्वर्थनिर्णयः ।
२९
या हेतुरिति कार्यकारणभावरूपाकांक्षा वाच्येति न कविदोषः ॥ ननु भावना फलांशविशेष्यास्तु प्रथमान्तार्थविशेषणं तु कुतो न स्यात् भावनामकारकशाब्दबोधं प्रति प्रथमान्तपद जम्योपस्थितिर्हेतुरिति कार्यकारणभावस्य सुवचत्वात् । न च भावप्रधानमाख्यातमिति वचनविरोधः । आख्यातार्थभावनाया धात्वर्थे प्राधान्यमात्रस्य तदर्थत्वात् । अन्यथा सत्वप्रधानानि नामानीति शेषवचनविरोधात् । एवं च पचतीत्यत्र पाकानुकूलकृतिमान् देवदत्त इति शाब्दबोध इति नैयायिकाभ्युपगतमेव कथं नाभ्युपेयतइति चेत् । मैवम् । एवं शाख्यातार्थ कर्तुरनन्वयापत्तेः । आख्यातप्रथमान्तार्थयोरभेदाभ्युपगमेपि पक्ता गच्छतीतिवत्पचतिकल्पं गच्छतीत्यापत्तेः । ईषदसमाप्तपाककर्त्ता गच्छतीत्यन्वयसम्भवात् । सिद्धान्ते च क्रिययोः परस्परानन्वयानातिप्रसङ्गः । किं च पचतिकल्पं पचतः कल्पं पचन्तिकल्पमि - त्यपि न स्यात् । सुबर्थसङ्ख्यायाः प्रकृत्यर्थे प्रधाने कर्त्तय्यैवावर्षात् । द्वित्वबहुत्वाभ्यां द्विवचनाद्यापत्तेः । आचार्यकल्पावाचार्य्यकल्पा इतिवत् । सिद्धान्ते च भावनायाः सङ्ख्यान्वयायोग्यत्वात्सङ्ख्याया अप्राप्तावौत्सर्गिकमेकवचनमेवोपपद्यते । अपि च नृत्यक्रियां पश्येत्यभिप्रायेण पश्य नृत्यतीति प्रयुज्यमानं वाक्यमपि न सिद्धयेत् । किं च मुख्यतः प्रथमान्तार्थस्य विशेष्यत्वाभ्युपगमे पश्य मृमो धावतीति भाष्याद्यभ्युपेतमेकवाक्यं न स्यात् । प्रथमान्तार्थमृगस्य धावनक्रियाविशेष्यवाभ्युपगमे तस्यैव दृशिक्रियायामन्त्रये कर्म्मत्वाद् द्वितीयापत्तेः । च च सत्यां द्वितीयायामप्रथमासमानाधिकरणत्वाच्छता दुर्गार इति वाच्यम् । एवमपि द्वितीयाया दुर्वारत्वात् । एवं चैता - दशवाक्याभाव एव स्यात् । किं चापाक्षीदेवदत्तो वेहीत्यत्र
·