SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका। यात् सुखसमवेतसुखत्वादिग्रहे संयुक्तसमवेतसमवायः । एवं घटादिग्रहे चक्षुषः स्पार्शनस्य वा संयोगः । रूपादौ संयुक्तसमवायः । रूपत्वादी संयुक्तसमवेतसमवायः द्रष्टव्यः । द्रव्यप्रत्यक्षमात्रे इन्द्रियसंयोगस्य शब्देतरद्रव्यसमवेतग्रहे संयुक्तसमवायस्य तत्समवेतग्रहे तृतीयस्य हेतुत्वस्य सामान्यतः स्वीकारात् । ननु चक्षुषो गोलकविशेषरूपस्य घटादिसंयोगः प्रत्यक्षबाधितः कथमासत्तिरिति चेन्न । तत्तद् गोलकाधिष्ठितानामिन्द्रियाणामतीन्द्रियाणामप्युपगमाव गोलकादिरूपवत्त्वे चा ऽसम्बद्धग्राहकत्वमम्युपेयम् । तथा च पृष्ठभागीयाः पुरोतिनो भित्यादिव्यत्रहिताश्च पदार्था गृह्येरन् । व्यवधानं प्रतिबन्धकामिति चेन्न । मित्यादिपरभागास्थतानां परावृत्य दर्शने पृष्ठदेशे स्वस्य च प्र. त्यक्षं न स्यात् । तत्पुरुषीयतत्कालीनप्रत्यक्षं प्रत्येव तस्कालपतिवन्धकत्वकल्पने चातिगौरवात् । तस्मादावश्यकमतीन्द्रियमिन्द्रियम् । नन्वेवं शाखाचन्द्रमसोस्तुल्यकालग्रहणं न स्यात् । किं च नेत्रोन्मीलने प्रहरायवधिसूर्यचन्द्रग्रहणार्थे विलम्बापत्तिः। चक्षुषस्तावत् दूरगमनकल्पनात इति चेन । अतिलाघवादतिशीचूं तावत् दूरगमनाद्विशेषाऽग्रहणस्याशु तदुत्पादकप्रतीतेश्चोपपत्तेः । तदुक्तम् । अचिन्त्यो हि तेजसो लाघवातिशयेन वेगा. तिशयो यत्माचीनाचलचूडावलम्बिन्येव भगवति मयूखमालिनि भुवनोदरेष्वालोकइत्यभिमानो लौकिकानामिति दिक ॥ सम. वायेन शब्दग्रहः श्रोत्रे शब्दसमवायस्य सत्वात् । शब्दत्वादि. ग्रहे समवेतसमवायः । विशेषणतया आभावग्रहः । शब्दो ना. स्तीति श्रोत्रे शब्दाभावस्य विशेषणतास्त्येव । भूतले रूपादौ च घटाभावग्रहे चक्षुःसंयुक्तविशेषणता चक्षुःसंयुक्त समवेतविशेषणता चेत्यादि द्रष्टव्यम् ॥ कवेः काव्यरचनामूलभूते विशिष्टज्ञाने
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy