________________
पदार्थदीपिका। विशेष्यः संयोगः सम्बन्ध इति तदवगाहि तत् ज्ञानं सविकरूपकम् । तद्दण्डज्ञानमन्तरेण नोत्पद्यते ऽतो दण्डज्ञानजन्यम् । यथा सुप्तोत्थितस्य जायमाने घट इति ज्ञाने घटत्वं विशेषणं घटो विशेष्यः समवायः सम्बन्ध इति तदवगाहि तत्सविकल्पक घटत्वज्ञानजन्यं वाच्यम् । तत्कारणीभूतं ज्ञानं चानुभवानास्पदत्वादतीन्द्रियं निर्विकल्पकमभिधीयतइति । नास्तिकास्तु निविकल्पकमेव प्रमा सुलक्षणवस्तुविषयत्वात् । तच्च सूर्यादिवत्स्वप्रकाशं न तु घटादिवत्परप्रकाश्यम् । सविकल्पकं तु न प्रमा, अलीकघटत्वाद्यऽवगाहित्वात् । वन्ध्यापुत्रज्ञानवदित्याहुः । तन्नेति वक्ष्यते । तच्च प्रत्यक्षं पश्यामि जिघ्रामि आस्वादे स्पृशामि शृणोमि मनसा सुखं साक्षात्करोमीति प्रतीतिसाक्षिकचाक्षुपत्वादिजातिषड्कभेदात्पोढा । तत्करणं चक्षुरादि, तैर्विषये गृह्यमाणे विषयेण सह सनिकों अवान्तरव्यापाराः । ते च संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणता ज्ञानलक्षणा योगजधर्मलक्षणा सामान्यलक्षणा चेति नव । षडाद्या लौकिका अन्ये त्रयो ऽलौकिकाः। तत्र मनसा जायमाने अहमित्यात्मप्रत्यक्षे मनः करणम् । आत्मप्रत्यक्षं फलम् । आत्ममनः संयोगो ऽवान्तरव्यापारः । सम्बन्ध इति या. वत् । अन्ये तु तज्जन्यस्तज्जन्यजनकोवान्तरव्यापारः । भवति चात्ममनः संयोगो मनोजन्यस्तज्जन्यज्ञानजनकश्चति व्यापा. रः । न चा ऽजन्ये शब्दसमवाये अव्याप्तिः । तस्य व्यापारस्वास्वीकारात् शब्दस्यैव स्वप्रत्यक्षे व्यापारत्वात् । यद्वा श्रोत्रमनः संयोग एव शब्दस्य तदत्यन्ताभावादेश्च प्रत्यक्षे व्यापा. रः । तस्य श्रोत्रजन्यत्वात्मत्यक्षजनकत्वाच्चेति वदन्ति । सुखादिग्रहे संयुक्तसमवायः । मनः संयुक्त आत्मनि सुखस्य समवा.