SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका। स्नेहः सङ्ग्रहरूपकार्यानुमेयो गुणः ॥ जलमात्रवृत्तिः । घृततेलादावुपष्टम्भकजलभागतः ॥ बुद्धित्वजातिमती बुद्धिः ॥ • सा द्विधा स्मृतिरनुभवश्च ॥ स्मरामीत्यनुभवसिद्धस्मृतित्वजातिमती स्मृतिः ।। सा च पूर्वानुभवजन्यसंस्कारजा इति वक्ष्यते ॥ अनुभवामीत्यनुभवसिद्धजातिविशेषोनुभवत्वमित्येके ॥ अ. नुमित्यादी अनुभवामीत्यप्रतीतेः प्रत्यक्ष एव । तथानुभवा. च्चानुभवसिदमनुभवत्वं प्रत्यक्षममेवेत्यपरे । प्रकृते तु स्मृ. तिभिन्नज्ञानत्वमेवानुभवत्वमिति ॥ सेयं बुदिधा मिथ्या प्रमा च ॥ असद्विषयणी मिथ्या ॥ शुक्ताविदं रनतमिति बुद्धौ शुक्तिरजतत्वयोः प्रसिद्धयोरलीकस्यैव समवायस्य विषयीकरणादिति वाचस्पतिमिश्राः । आचार्यादयस्तु । असतो भानासम्भवाच्छुक्तौ प्रसिद्धरजतत्व: स्येव तत्समवायस्याप्यारोप एव । अलीकं न भासतइत्यादि. वाक्येष्वपि सचेतसा मूकतैवोचितत्याहुः । तन्मते विशेष्याऽसम्बद्धविशेषणविषयकत्वं मिथ्यात्वम् ॥ घटे रूपमित्यस्य वारणाय विशेष्यावृत्तीति नोक्तम् । असम्बद्धत्वं तु तत्र नास्तीति नातिव्याप्तिः । सा त्रिधा संशयविपर्ययतर्कभेदात् । एकस्मिधर्मिणि विरुद्धनानाविमर्शः संशयः । यथा स्थाणी स्थाणुर्वा पुरुषो वायामिति । अत्र पुरुषत्वं तत्सम्बन्धश्च तत्र नास्तीति भवत्यसविषयत्वम् । स चायं त्रिधासाधारणधर्मदर्शनजो ऽसाधारणधर्मदर्शनजो विप्रतिपत्तिजश्च । स्थाणुपुरुषसाधा- . रणोचत्वदर्शनज आद्य उक्तः । नित्या ऽनित्येभ्यो व्यावत्तशब्द.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy