SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका । ण्विति व्यवहारस्तु अपशिष्टमहलाहोगः । एवं मांशोसिनो स्व इत्यपि अपकृष्टदीर्घत्माद्वौणः । तत्र द्वयणुकपरिमाणं परमाणुद्वित्वसंख्यायोनिः । द्वयणुकगतबहुत्वात व्यणुके महत्वम् । घटादौ च कपालमहत्वम् । क्वचित् क्वचिबहुत्वसंख्या विलक्षणमहत्वे हेतुः । तूलपिण्डपरिमाणविशेषे अवयवचय: कारणम् । स च प्रशिथिलः संयोगः ॥ घटा पटापृथगित्यनुभवसिद्धपृथक्त्वनातिमत्पृथक्त्वम् ॥ सदपि संख्वावदेव सर्वद्रव्यवृत्ति एकपृथक्त्वद्विषयक्त्वत्रिपृथक्त्वादिभेदेन अनेकधा । अवयवगतकपृथक्त्वादवयविन्येकपृथक्त्वमुत्पद्यते । रूपं रसात्पृथक् इति तु भिन्नत्वात्गौणः प्रयो. गः । ननु भेदेनैव घटः पटात्पृथगिति व्यवहारोपपत्तौ पृथक्त्वाख्यगुणे किं मानमिति चेत् । अत्राचार्याः । अन्यारादित्तरसेदिकशब्दांचूत्तरपदाजाहियु के इति व्याकरणसूत्रेण पृथक्त्व. वाचकपदयोगे विधीयमानपञ्चम्यनुरोधेन तस्वीकारस। महाभाष्ये ऽन्येत्यर्थग्रहणमभ्युपेत्य तदर्थवाचकतरादिपदयोगेषि पञ्चमीसिद्धस्तस्य सूत्रे प्रत्याख्यात्तत्वात् । भेदस्य अन्यपदार्थत्वेन विवक्षणे च सद्वाचकपदयोगाविशेषात् पादन्यो विलक्षणे इत्यादाविव घटो नेत्यत्रापि पञ्चम्यापत्तेः ॥ संयुक्तावित्यनुभवसिद्धसंयोगत्वजातिमान्संयोगः॥ सर्वद्रव्यवृत्तिः । सत्रिविधः । अन्यतरकर्मज उभयकर्मजः संयोगजश्च । निष्क्रियस्य स्थाणोः क्रियावता पक्षिणा सहायः । मल्लयोर्मेषयोर्चा द्वितीयः । अङ्गुलीतरूसंयोगात्कायतरुसंयोगोन्त्यः । सोयं संयोगो द्विमिष्ठः घटपटौ संयुक्तौ इतिपत्ययात् । घटे पटस्य पटे घटस्यान्य एव संयोगः । अन्यथा घटः पटसंयुक्तइतिवत् घटो घटसंयुक्त इत्यपि प्रतीत्यापतेः । तथा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy