SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका। प्रति पृथिवीत्वेन हेतुत्वात् वन्हेस्तेजस्त्वात् । इदमेव च पृथिवीस्वजातौ प्रमाणम् ॥ ननु मतद्वयेप्यग्निसंयोगादेकस्माद्विलक्षणा भिन्नाश्च रूपादयः कथं भागभावभेदादिति चेन्न । तस्य वैलक्षण्याप्रयोजक स्वात् । अन्यथा घटादीनामपि पटादिवत्परस्परवलक्षण्यापत्तिरिति चेन्न । रूपवति घटे रूपान्तरानुत्पत्तेः रूपं प्रति रूपं पतिबन्धकमिति सर्वसिद्धम् । एवं रसादावपि । तथा च प्रतिबन्धकाभावरूपतत्तद्भावकारणभेदवलक्षण्याभ्यां भेदवैलक्षण्ये द्वित्वत्रित्वादिजद्वयणुकत्र्यणुकाणुत्वहूस्वत्वदीर्घत्वमहत्वेष्वप्येव भेदादि । के चित्तु अग्निसंयोगभेदादेव भेदमाहुस्तेषामणुत्वादी गतिश्चित्या ॥ ननु स्पर्शस्य पाकजत्वे किं मानम् । नहि रूपरसादिवत्पाकोत्तरं स्पर्शान्तरमनुभूयते । न च चांडालस्पर्शनिषेधगोब्राह्मणस्पशविध्यनुपपत्त्या तसिद्धिरित्याचारुक्तं युक्तम् । तत्र स्पर्शपदस्य संयोगपरत्वात् । अन्यथा गङ्गास्पर्शविधिकर्मनाशाजलस्पर्शनिषेधानुरोधाज्जले ऽपि दीपाग्निस्पर्शनिषेधपरमेश्वरार्तिक्यदीपस्पर्शविधेरनुरोधात्तेजसि तसिव्यापत्तेरिति चेन्न । पूर्व काठनस्य पाकेन कोमलतायाः पूर्व कोमलस्य पाकन काठिन्यस्य वा. नुभवसिद्धत्वेन रुपादिवत्पाकजत्वसिद्धेः । न च काठिन्यकोमलत्वे संयोगविशेषौ । चाक्षुषत्वापत्तेः । एते रूपरसगन्धस्पर्शाउ. द्भतानुद्भता द्विधा । उद्भूतत्वं जातिस्तदभावो ऽनुद्भतत्वामति पाञ्चः । अनुद्भूतत्वं जातिस्तदभाव उद्भूतत्वमिति . माणकाराः॥ संख्यात्वजातिमती संख्या ॥ एकत्वाद्वित्वबहुत्वभेदात्रिधा । सकलद्रव्यवृत्तिः । तत्रावयर
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy