SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका। नाहतम् ॥ ननु रूपादयः पृथिवीपरमाणावेव पाकजा इति कथं सङ्गच्छताम् । आमपाकनिक्षिप्तघटादावपि पूर्वरूपनाशपरोत्पत्त्योर नुभवसिद्धत्वादिति चे,त्सत्यम् । घटमध्येपि पाकजरूपाद्यनुभव. सिद्धं तच्च तत्राग्निसंयोग ज्ञापयति अग्निसंयोगस्यैव पाकजनकत्वात् । तथा च वन्यभिघातात् तत्र परमाणुपर्यन्तं घटाव. यवतदवयवानां विभागः । ततः परस्परसंयोगनाशः । ततो वि. शकलितेषु तन्तुषु पटनाशवदसमवायिकारणनाशात द्रव्यनाशे स्वतन्त्राः परमाणवः पच्यन्ते तत्र कदाचित्समानाग्निसंयोगादेकजातीयं, विलक्षणाच्च परस्परविलक्षणं रूपमुत्पद्यते, पुनर्भो. जकादृष्टसहकृत ईश्वर एव सृष्टयादाविय व्यणुकादिक्रमेण पूर्वव. देव तादृशरेखोपरेखासंस्थानवत करोति । तथा च परमाणुरू. पाद द्वयणुके ततः व्यणुके इति क्रमेण पूर्वकुलालनिर्मितघटइव तत्रापि रूपाद्युत्पतिरिति भवति परमाणावेव पाकजरूपरसगन्धस्पर्शाः न द्वयणुकादाविति । घटादावेव पाकाभ्युपगमे कठिनघ. टादिमध्यभागे वन्यप्रवेशान्मध्येपि पूर्वरूपादिनाशनवीनोत्पत्ती न स्यातामिति काणादाः॥ नैयायिकास्तु घटादयः सच्छिद्राण्येव द्रव्याणि, कथमन्य. था भाण्डान्तर्गतौदनादिपाकः कथं वा तन्मध्यवर्तिजलस्यन्दनप्रस्रवणे । तथा च तद्वारा प्रविष्टवन्हिना मध्येपि पाकसम्भबागौरवग्रस्तनिष्प्रमाणकपूर्वनाशनवीनोत्पत्तिकल्पनां तदुत्पादनायेश्वरे भारं च न सहन्ते । तथा च तन्मते घटादावपि पाकः सिध्यति ॥ ननु संयोगस्योभयनिष्ठत्वाद् घटादाविव वन्ह्यादावपि रूपादयः कुतो न भवन्तीति चेत, सत्यम् । समवायेन पाकजरूपं
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy