SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका। दिप्रभापि न त्वचा गृह्यते उद्धृतस्पर्शाभावात् ॥.. . मीमांसकस्तु सद्भूतस्पर्शवद् द्रव्यं स्वचो योग्यं लाघवात् न तु रूपमपि तत्र प्रवेश्यं गौरवात् । अतो वायुरपि स्पार्शनप्र. त्यक्ष एव । अत एव वायुं स्पृशामीत्यनुभवः । अन्यथा घटादेः स्पर्शी, गृह्यते तेन तद् द्रव्यमनुमीयते इति वक्तुं शक्यत्वात् किमपि द्रव्यं स्पार्शनप्रत्यक्षं न स्यात् । किं च चक्षुषा रूपं गृह्यते. घटादि तदाश्रयत्वेनानुमीयतइत्यपि स्यात् । तथा च द्रव्यमतीन्द्रियमेव स्यात् । एवं महदुद्भतरूपवयं चक्षुर्योग्यम् । अतः प्रदीपचन्द्रादिप्रभापि चक्षुपायैवेत्याहुः । विषयस्तु वृ. क्षादिकम्पजनकः । प्राणः पञ्चधा प्राणापानव्यानोदानस. मानभेदात् ॥ शब्दाश्रय आकाशः॥ स च तत्कार्यस्य शब्दस्य सर्वत्रोपसम्भाव विभुः, लाघचादेको नित्यश्च श्रोत्रं तदीयमिन्द्रियम् । अदृष्टविशेषोपगृही. तकर्णशष्कुल्यवच्छिन्नं नमः श्रोत्रम् । बधिरस्याविशेषाभावान्न श्रोत्रमस्ति ।। कालिकपरत्वापरत्वानमेयः कालः ॥ .. . स चैकोपि वर्तमानातीतभविष्यक्रियोपाधिवशाद्वर्तमाना दिसंज्ञा लभते । पाकपठनादिक्रियावशात् पाचकपाठकादिव्य. पदेशवत् ॥ दिगेका नित्या दैशिकपरत्वापरत्वासाधारणकारणम् ॥ सा चेन्द्रयमाग्निनिऋतिवरुणवायुकुबेरेशानब्रह्मानन्तरूपोपाधिवशाद पूर्वादिभेदेन दशं संज्ञा लभते । एतौ दिक्काली जगदाधारौ जगद्धेतू च । इहेदानी करोपीति सर्वानुभवात् ।। । आत्मत्वसामान्यवान् ज्ञानाश्रयो वा आत्मा विभुनित्य
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy