SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका। पीतजलस्य च पाचनात् । खनिजमाकरजं सुवर्णादि ॥ __ननु सवर्ण न तेजः परप्रकाशकरूपविरहात उष्णस्पर्शाभावाच्चेति चेन्न । अभिभूतरूपस्पर्शयोस्तत्र स्वीकारात् । पीतरूपबन्तः पार्थवभागास्तत्र मिलताः संतीति तदीयरूपस्पर्शभ्यां तयोरभिभवस्सम्भवत्येव । बलवत्सजातीयग्रहणकृतमग्रहणं ह्य. भिभवस्तारशब्दान्मन्दस्येव ॥ ममिांसकास्तु पीतरूपवत् द्रव्यान्तरमेव सुवर्णमूचिरे । तन्न । द्रव्यान्तरकल्पने गौरवात् ॥ अन्ये तु हरिद्रादिवत्पीतरूपवत्वात्पृथिव्येव सुवर्णमित्याहुः । तन्न । अत्यन्तानलसंयोगाद्भस्मापत्तेः ॥ वायुत्ववान्नीरूपस्पर्शवान्वा वायुः ॥ सोपि द्विधा नित्यो ऽनित्यश्च । परमाणुरूपो नित्यः कायरूपो ऽनित्यः । सोपि शरीरेन्द्रियविषयप्राणभेदात् चतुर्था । शरीरं वायुलोके पिशाचांदीनां च । इन्द्रियं त्वक् सकलशरीर व्यापकम् । मिद्धानाड्यां तत्सत्वेपि तन्मनोयोगस्य स्वप्नजन. कत्वात् तदा स्वाप्नज्ञानमेव न त्वाचादि पुरीत त्येवं परं नास्ति अतस्तस्यां मनःप्रवेशे ज्ञानशून्या सुषुप्तिर्भवति, ज्ञानमात्रे त्व. ङ्मनोयोगस्य हेतुत्वेन तदानीं तदभावाज्ज्ञानाभावोपपत्तेः । तनु वायवीयमेव रूपादिषु पञ्चमु स्पर्शस्यैवाभिव्यञ्जकत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यजकव्यजनपवनवत् । एलादौ न. लस्पर्शाभिव्यञ्जके व्यभिचारवारणायैवकारः । तच्चोद्भूतस्पशतज्जातितदभावोद्भूरूपस्पर्शवव्यतद्गतगुणतज्जातितदभावा नां ग्राहकम् । अत उद्भतरूपाभावात्तप्तवारिस्थं तेजो, रूपाभावाद्वायुश्च त्वचा न गृह्यते, किं तु तत्स्पर्शमात्रं गृह्यते तदाश्रः यस्नेन वायुरनुमीयते इति सिद्धान्तः । एवं प्रदीपवनचन्द्रा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy