SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका । पृथिवी द्विधा । नित्या नित्या च । परमाणुरूपा नित्या । का. यरूपा त्वनित्या । यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्ममुपलभ्यते । तञ्च व्यणुकं तस्य षष्ठोंशः परमाणुः । तत्रिभिर्यणुकैरारभ्यते । द्वाभ्यां परमाणुभ्यां च द्यणुकामति स्वीकारात् । कार्यरूपा च त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरं त्वन्या. वयवि भोगायतनम् । भोगनियामकमिति यावत् । तत्पञ्चधा शुक्रशोणिताभ्यां विनवादृष्टविशेषोपगृहातपृथिवीजन्यं जरायुजमण्डजं स्वेदजमुद्भिदं च । आचं वशिष्ठादेः । गर्भावरकश्चर्मविशेषो जरायुस्तज्जं मनुष्यादि । अण्डजं पक्ष्यादि । स्वेदजं यूकालिक्षादि । पृथिवीं भित्वाजायमानमुद्भिदं वृक्षादि । इन्द्रियं घ्राणम् । तच्च गन्धतज्जातितदभावानामेव ग्राहकम् नासा. प्रबार्स तत्पार्थिवमेव, रूपादिषु पञ्चसु गन्धस्यैवाभिव्यञ्जकत्वात् । कुंकुमगन्धाभिव्यञ्जकतैलवत् । सक्तुरसनवशरावगन्धाभिव्यञ्जकजलेतिव्याप्तिवारणाय एक्कारः । विषयाः पु. पादयः॥ अप्वजातिमत्यः शीतस्पर्शवत्यो वा आपः ।। ता अपि द्विधा नित्या अनित्याश्च । परमाणुरूपा नित्या कार्यरूपा अनित्याः । ता अपि शरीरेन्द्रियविषयभेदात् विधा। शरीरं वरुणलोके । तन्तु पार्थिवावयवमिलनात् करकावत् अहटविशेषाद्वा घनीभूतं दृढं सद्भोगोपयोगि इन्द्रियं रसनम् तच्च रसतज्जातितदभावानामेव ग्राहकम् जिव्हागवत्ति तदाप्यमेव । रूपादिषु पञ्चसु रसस्यैवाभिव्यञ्जकत्वात् लालावत् । जलमाधुर्यव्यञ्जकहरीतक्यामलकादौ व्यभिचारवारणायैवकारः । तयोः कषायाम्लरसवत्तया पटरञ्जकद्रव्यरूपविशेषाभिव्यञ्ज. कत्वात् । विषया नद्याद्याः॥
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy