________________
३२२
वैयाकरणभूषणे
तावच्छेदकत्वात् । नन्वेवं घटीपि नित्य एव कपालसंयोगादिकं व्यञ्जकं भविष्यतीति चेन्न । प्रागसत्वे सति सत्वरूपाया उत्पत्तेस्तत्र गृहीताया विना बाधकं त्यागायोगात् । अत्र तदग्रहविपरीतग्रहयोः सत्वेन तदयोगात् । सत्कार्यवादाभ्युपगमे त्विष्टापत्तेश्च । न च गकारादेर्विना व्यञ्जकमननु भवेन्धकारस्थ घटवत्सन्देहापत्तिः । दोषाद्यभावादुपपत्तेः । अन्यथोत्पन्नत्वादिसन्देहोषि किं न स्यात् । एवं च वीचीतरङ्गादिन्यायेनानेकवर्णकल्पनायां गौरवमपास्तम् । तस्मान्नित्या एव वर्णाः । तस्माद्यथा गकारादिप्रतीतिस्तथा स्फोटमतीतिरपि गत्वादिरूपे णोपपन्नेति नोक्तशङ्केति भाव इति सुधीभिर्येयम् ॥ ७० ॥ इति व्यक्तिस्फोटनिरूपणम् ॥
•
बोपदेवोक्तयुक्तया जातिस्फोटमाह || शक्यत्वइव शक्तत्वे जातेर्लाघवमीक्ष्यताम् । औपाधिको वा भेदस्तु वर्णानां तारमंदवत् ७१
अयमभिप्रायः । गकारादिव्यक्तयस्तावदवश्याभ्युपेतव्याः । न चोक्ता रीतिः साध्वी । तथा सति सोयं गकार इतिवद्यो मया इकारः श्रुतः सोयं गकार इत्यापत्तिः । एकस्यैवाखण्ड पदार्थस्य सकलवर्णरूपत्वात् । णकारोयं न गकार इत्यनापत्तेश्च । किं च स्फोटे गत्वाद्यतिरिक्तमभ्युपेयं न वा । आधे तदेव गकारोस्तुवर्णातिरिक्तगत्वाभावस्य वर्णनित्यतावादे शङ्करभगवत्पाद - प्रभृतिभिः सिद्धान्तितत्वात् । तथा चातिरिक्तस्फोटकल्पन एव गौरवम् । वर्णानामेव वाचकत्वोपपत्तौ तत्र मानाभावश्च । अन्त्ये यकारादिप्रतीतिविरोधः । वायुसंयोगादिवृतिवैजात्यमेव तत्तद्रूपेण प्रतीयतइति चेन्न । प्रतीतेर्विना बाधकं भूमत्वायोगात् ।
1