SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः। ३२१ सत्त्वे सति सत्त्वरूपाया उत्पत्तेन वर्णेषु ग्रहणमानुभविकम् । अत एव वर्णमुच्चारयतीति प्रत्ययो न तूत्पादयतीति प्रत्ययो व्यवहारश्च । उच्चारितत्वं च ताल्वोष्ठसंयोगादिजन्याभिव्य. क्तिविशिष्टत्वम् । तस्य चेदानींतनता सूपपादा । तथा च प्रागनुभूतेनेदानींतनानुभूतस्याभेदसिद्धौ तापत्कालं स्थिरं चैनं का पश्चानाशयिष्यतीति न्यायेन नित्यतैव । नन्वेवं स्त्रीप्रभवोयं शुकप्रभवोयमिति प्रतीतिस्तच्छ्रवणात्स्त्रीशुकाधनुमानं च न स्यात् । न च वैजात्यं वायुनिष्ठम् । तदग्रहेपि वैजात्यबोधात् । नापि ध्वनिनिष्ठम् । तत्र तस्मिन्मानाभावात् । तदुत्पादकशखाद्य. भावाच । किं च । सेयं गुर्जरी सेयं दीपकलिका इत्यादापि नाशो न स्यादिति चेन्न । स्त्रीशुकादिजन्यतावच्छेदकं ताल्वोष्ठसंयोगे तदभिघातजवायौ वा विद्यमानवैजात्यं वर्णेष्वारोप्यतइत्यभ्युपगमात् । अत एव तारत्वादिरूपविरुद्धधर्माध्यासादि इति निरस्तम् । न च वायत्रग्रहे ताम्निष्ठ जात्यायग्रहः । येन यस्य धर्मो गृह्यते तेन तदपीति नियमादिति वाच्यम् । बहिरिन्द्रियेषु व्यभिचारेण नियमाभावात् । चक्षुषः प्रभायाः स्पर्शनस्य वायोः रूपस्पर्शमात्रस्य रसनादेश्च रसादिमात्रस्य ग्राहकताया नैयायिकैः स्वीकारात् । अस्तु वा स्त्रीशुकादिव्यंग्यस्तारत्वादिश्च वर्णनिष्ठो जातिविशेषः । न च तेषां कश्चिद्विरोधः । योयं रा. मेणोक्तः स एवेदानी कृष्णेनोच्यतइति । योयं तारो मया श्रुतः स एवेदानी मन्द इति च प्रतीतेः । गुर्जरीदीपादिस्थलपि मानान्तरेण नाशसिद्धौ सोयामित्यस्य भ्रमत्वं अन्यथा तत्रापीष्ट एव नाशाद्यभावः । न चैवं वायुताल्वोष्ठसंयोगादर्गत्वं कायतावच्छेदकमपेक्ष्य तत्सत्यक्षत्वं त्वया वाच्यम् । तथा च गौरवामिति वाच्यम् । प्रत्यक्षत्वावच्छिन्नविषयितया गत्वस्यैव कार्य
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy