SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे स्यात् । अनित्यत्वे ऽनुगतः ककार इति प्रत्ययो न स्यात् क. त्वस्य ककाररुपनाममात्रत्वापचेश्च । अन्त्ये भ्रमत्वं कादिप्रतीतीनां स्यादित्यत आह॥ कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि । स्वरदैाद्यपि ह्यन्ये वर्णेभ्यो ऽन्यस्य मन्वते ७० कुत्र स्वीकृतं तदाह । स्वरेत्यादि । उदात्तत्वादिकं ध्वनि निष्ठमिति स्वीकारादिति भावः । एवं दीर्घत्वादिकमपि । आदिना इस्वत्वादिकमपि गृह्यते । अयं तेषामभिप्रायः । गकारादयो वर्णास्तावदेकैका एव, प्रहरात्पूर्वमनुभूयमानस्य सोयमिति प्रत्यभिज्ञानात् । न च गत्वावच्छिनप्रतियोगिताकभेदाभावस्तद्विषयः । व्यक्तयतिरिक्तगत्वानङ्गीकारात् । अयं गकार इति चेदं रूपमितिबदुपपद्यते । न.च गत्ववानाकार इत्यनयोरविषापतिः । सह प्रयोगश्च न स्यादिति शङ्यम् । प्रतीतो गत्वत्वस्यापि भानाद्विशेषसम्भवात् । सहप्रयोगस्यापि घटत्ववान्घट इतिवदुपपत्तेः । भिन्नेषु घटादिषु घटत्वावच्छिन्नप्रतियोगिताकभेदाभावसत्वात्सो यमिति प्रतीत्यापत्त्या व्यक्त्यभेदस्यैव तत्र विषयत्वावश्यकत्वाच्च । प्रत्यभिज्ञाया व्यक्तिविषयत्वे बाधकामावाच्च । न च गकार उत्पन्न इति प्रतीतिरेव बाधिका । तस्याः व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परासम्बन्धेन वर्णनिष्ठत्वविषयत्वे. नाप्युपपत्तेरतिरिक्तवर्णासाधकत्वात् । परम्परया वर्णनिष्ठत्वाभ्युपगमाच्च न भ्रमत्वम् । साक्षात्सम्बन्धाशे भूम इत्यवशिष्यते । तदपि सोयमित्यत्र व्यक्तयभेदांशे तव भूमत्ववत्तुल्यं परंतु ममातिरिक्तवर्णतत्मागभावध्वंसकल्पनागौरवापत्तिनैति लाघवमतिरिच्यते । तव तु तत्स्यादिति महदनिष्टम् । किं च । प्राग
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy