SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २६ वैयाकरणभूषणे कवचनमपि न स्यात् । तथा च 'संख्यानन्वये साधुत्वमात्राय प्रत्ययाभिधाने प्राप्त प्रथमोपस्थितत्वादेकवचनमेव कल्प्यते अव्ययानामसंख्यत्वेन तदनुरोधेन भाष्ये तथैव व्यवस्थितेः । अथ वा द्विवव्होद्विवचनबहुवचने इत्येव सूत्रं कर्त्तव्यं द्वित्वविवक्षायां बहुत्वविवक्षायां च द्विवचनबहुवचने भवत इत्यर्थः । यत्र च न तयोविवक्षा तत्र साधुत्वार्थमेकवचनं भवति न त्वेकत्वादिविवक्षापेक्षा । एवं च प्रकृतेष्येकत्वादिविवक्षाविरहेपि साधुत्वार्थमेकचचनमुपपद्यते इति न कश्चिद्दोषः । उष्ट्रासिका आस्यन्ते हतशायिकाः शय्यन्ते इत्यत्र भावे बहुवचनश्रवणं कथमिति चे, त्पत्यम् । भाष्यकारवचनादत्रैव बहुवचनं साध्विति हि प्रामाणिकाः ॥ तिङ इति । आदेशिनोर्थेनार्थवत्वमादायेदं बोधकत्वं शक्तिरित्यभिप्रायेण धा । निरूपितस्थले विशेषणविशेष्यभावं व्युत्पादयति । फले इत्यादि । फले, विक्लित्यादौ । प्रधानं विशेष्यः । विक्लितिव्यापार विशेषणमित्यर्थः । तिर्थाः कर्तृकर्मसंख्याकालाः । तत्रापि कर्तृकर्मणी व्यापारफलयोविशेषणे संख्या तु अनयोः । कालस्तु व्यापारे एव तथैवानुभवात् । कर्तकर्मणोः समानपदोपात्तत्वेनान्तरङ्गत्वेनान्वये तु पचतीत्यादौ तयोरेव वर्तमानत्वात्ययः स्यात्, न च तथा कस्य चिदनुभव इति वदन्ति । वस्तुतो वर्तमानेलडित्यत्राधिकाराद्धातोरित्येव लभ्यते तत्र धातोर्वर्तमानत्वं न तदानीं विवक्षितमिति तदर्थस्य वाच्यम्, तदर्थोपि प्राधान्यावयापार एव गृह्यते इति न कर्टकमैफलेषु तदन्वयः । जानातीत्यत्रापि ज्ञानस्यैव फलानुकूलव्या. पारत्वेन तत्रैव तदन्वयः । कर्तृकर्मणोरन्वये चातीतक्रिये कर्तरि पचतीत्यापत्तेः । अपाक्षीदित्यनापत्तेश्च । इतोपि व्यापारवर्तमानतादशायां विक्लित्यादिरूपफलस्य भावित्वात्पक्ष्यतीति
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy