SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। २५ च्छेदात् कर्तृकर्मणी वाच्ये एव । अन्यथा भावनापि पाच्या न स्यात् । कर्तृकर्मणोर्भावनयैवाक्षेपसम्भवनान्यलभ्यत्वान्न त. योर्वाच्यत्वमिति चेन्न । कर्वकर्मभ्यां कुदादाविव भावनाया एवाक्षेपसम्भवादस्तु तयोरेव वाच्यत्वं, मास्तु च भावनाया इत्यस्याप्यापत्तेः । विवेचितं चैतदधस्तात् । एतेन कर्तृकर्मणोविवरणं तात्पर्यार्थविवरणम् । बोधविवरणयोर्युत्पत्त्यनुसारित्वेनानिर्णायकत्वं वा पाकामत्यशब्दार्थकर्मत्वविवरणवदुपपद्यसएवैतदपीति वा इतरेतरद्वन्द्वे साहित्यविवरणबद्वा नार्थनिर्णायकतेत्यादिकमपास्तम् । एवं च तुल्ययुक्त्या कर्तृकर्मणोर्याच्यत्वमावश्यकमेवेति दिगिति विभावयामः । लाकर्मणीत्यस्य कालसंख्याभावनापुरस्कारेण प्रवृत्तौ विध्यादौ कदादौ तद्वाच्यत्वापतेर्भावनाया धातुलभ्यत्वाच्चेत्यत: कादिपुरस्कारेण प्रवृत्ती तदादेशत्वाच्छानजादिवत्तिङस्तदर्थकत्वं दुर्वासमित्यपि वदन्ति । भावतिहां धात्वर्थानुवादकमात्रत्वान्न तदर्थोत्र वर्णितः ॥ अ. येवं लडादिभिस्तत्र वर्तमानत्वं न बोध्येतेति चेन्न । तस्य धात्वर्थव्यापारविशेषणतया तिङो द्योतकत्वात् । वाचकस्वपक्षेप्यगत्यानुभवानुरोधेन विधायकवचनेन च तथास्वीकारात् । अथैवं कथं तत्र संख्याप्रत्ययोपीति चेन । तस्या उत्स. गलभ्यत्वात् । तथाहि । भावलकारे हि संख्यान्वयिकर्तृकर्मणोरमतीतेस्तत्रत्या संख्या ऽनन्वितैव । न च भावनायामेव तदन्वयोस्त्विति शक्यम् । तस्या लिङ्गसंख्यान्वयायोग्यत्वेनैव धा. तुनोपस्थापनात् । एतदेवास-त्वभूतत्वम् । न च भावतिर्थसं. ख्याभावनयोर्धात्वर्थएवान्वय इति कुसुमाञ्जलावुक्तं युक्तम् । धास्वर्थबहुत्वे मैत्रेण स्थीयते सुप्यते इत्यायनापत्तेः बहुवचनापतेश्च । बहुषुबहुवचनमित्यनुशासनस्यावर्जनीयत्वात् । अन्यथै
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy