SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे मत्कारकमिति पक्षाश्रयणेन शक्तिमतामेव कर्त्रादिपदवाच्यत्वात् । अत एव देवदत्तः कर्त्ता कारकः कर्म इति सामानाधिकरण्यं संगच्छते । उक्तं च साक्षान्सूत्रकृतैव युष्मदस्मदादिशब्दसामानाधिकरण्यमुट्टाङ्कितं सूत्रादिषु । तथोक्तं च भाष्ये । सुपां कर्मादयोप्यर्थाः सङ्ख्या चैव तथा तिङामिति अत एवाश्रमे स्विति मूलमपि न ल:कर्मणीति सूत्रविरुद्धम् । अन्यथा कर्त्तरिकदित्यनुशासनाच्छानजादेः शक्तिमात्रवाचकत्वे सामानाधिकरण्यापलापापत्तेश्च । नित्याः षड् व्यक्तयोन्येषामिति वाक्यपदीये ऽन्यमतत्वेनैव शक्तिपक्षोत्थापनात्तत्पक्षस्य सिद्धान्तासम्मतत्वाच्च । धातुनोक्तक्रिये नित्यमित्यादिवक्ष्यमाणवाक्यपदीयादिभिर्भावनाश्रवत्वस्य कर्तृत्वेन फलाश्रयत्वस्य कर्मत्वेन प्रतीतेः स्वातन्त्र्येण शक्तिमत्ययस्यैवासिद्धेश्च । न चैवमाश्रयेत्विति मूलं सूत्रविरुद्धं स्यात् । सूत्रे कर्तृत्वकर्मत्वाभ्यां वाच्यत्वावगमात् । न च भावनांशस्य धातुलभ्यत्वादाश्रय इत्येव सूत्रस्य भावार्थ इति वाच्यम् । अन्यवाच्यस्यापि तथात्वस्य स्वयैवोपपादनात् । अवाच्यत्वेपि वाच्यतावच्छेदकत्वस्याकारणत्वेपि कारणतावच्छेदकत्ववदलक्ष्यत्वेपि लक्ष्यतावच्छेदकत्ववत् सुलभस्वाच्चेति शङ्कयम् । भावनाया वाच्यतावच्छेदकत्वेनानन्तपदार्थेषु शक्यतावच्छेदकत्वापत्तौ गौरवात् । आश्रयत्वस्य चाखण्डशतिरूपत्वात् । तस्मादेवदत्तः पचति पच्यते तण्डुल इति सा - मानाधिकरण्यात्कर्तृकर्मणी वाच्ये एवेति सिद्धम् । अपिच पचतीत्यत्र व्यापारस्येव कर्त्तुरपि प्रतीतिः सर्वानुभवसिद्धा । अत एव पचतीत्येव श्रुते कः कीदृशः किंजातीय इति प्रश्नश्चैत्रो घनश्यामो ब्राह्मण इत्युत्तरं च सङ्गच्छते । तथा च प्रतीतेः पा कानुकूलकृतिमान् पचतीति पाचक इति विवरणाच्च शक्तिपरि २४
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy