SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । २३ तस्माद्वैश्वदेव्यामिक्षा पिङ्गाक्षी गौः दण्डी देवदत्त इति सामानाधिकरण्यस्य विनैवानुपपत्तिप्रतिसन्धानं शब्दादेव प्रतीतेस्तदनु! सारेण द्रव्यवाचित्वसास्थेयम् । तच्च सममाख्यातेपीति कर्तृकर्मवाचकत्वमवर्जनीयमेवेति । अत एव चित्रा गावो यस्येति सम्बन्धप्राधान्यदर्शनेपि चित्रगुर्देवदत्त इति समासे सामानाधिकरण्यानुरोधात् द्रव्यवाचित्वं विग्रहसमासयोरेतदंशे वैलक्षण्यं चाश्रीयतइति वक्ष्यते । अथैवं नीलो घट इति सामानाधिकरण्यानुरोधात् घटादिपदानामपि द्रव्यवाचकत्वे आकृत्याधिकरणविरोधः । मैवम् । घटादिपदे हि घटत्वस्य वृत्त्याविषयत्वे शाब्दे भानायोगात् घटत्वांशे वृत्तिकल्पनावश्यकत्वेनागृहीतविशेपणन्यायेन जातिमात्रवाचित्वसिद्धौ द्रव्यमाक्षिप्यतइति युक्तम् । प्रकृते च प्रकृत्यर्थतावच्छेदकस्यैव प्रकृतिशक्तयोपस्थितत्वात्तदुपलक्षणीकृत्य शक्तौ दोषाभावाद् द्रव्यवाचित्वमास्थीयते । उक्तं च, आनन्त्येपि हि भावानामेकं कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यतीति । यदि च घटादिपदेप्युपलंक्षणत्वमभ्युपेयते तदा केवलव्यक्तिवाच्यत्वमपि सुसङ्गतमेवेति वक्ष्यते । एवं च केवलव्यक्तिवाच्यत्वपक्षमाश्रित्य सामानाधि करण्यं नानुपपन्नामिति सिद्धान्तरीत्यापि द्रष्टव्यम् । वस्तुतो गोमानित्यत्र गोसम्बन्धीति बोधात्सम्बन्धी वाच्यः । वाच्यतावच्छेदकः संसर्गः सम्बन्धत्वं परम्परयोपलक्षणं तदादौ बुद्धिविशेषवत् । न च तच्छाब्दे विषयो येन घटत्वप्रतिबन्दी स्यात् सम्बन्धप्रकारक बोधस्यैवानुभवसिद्धत्वात् । अत एव दण्डि स्वमित्यादौ त्वप्रत्ययस्य सम्बन्धबोधकत्वं सङ्गच्छतइति । न च कर्तृकर्मादिवाचकशब्दानां शक्तिवाचकत्वाद्देवदत्तादिपदैः सामानाधिकरण्यासम्भव एवेत्यसिद्धो हेतुरिति वाच्यम् । शक्ति ,
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy