________________
वैयाकरणभूषणे त्वस्या न्यायसिद्धत्वात् । किं चैवं घटादिपदे द्रव्यत्वादेर्दण्डीत्यादौ पुरुषगतरूपादेश्च तदुत्तरत्वाद्यर्थतापतिः द्रव्यत्वादिकं घटपदजन्यप्रतीतौ न प्रकार इति चे, दाक्षेपपक्षे संसगोपि न प्रकार इति तुल्यम् । वक्ष्यते चैतदुपरिष्टात् । चित्राणां गवा. मयामिति विग्रह इत्यादिकं च स्फुटतरं समासशक्तौ निराकरिव्यते । तस्मादुक्तयुक्तिभिः संसर्ग एव वाच्यो मतुवादेः स्यादिति तदर्थविहितबहुव्रीहेरपि तन्मात्रवाचकत्वे अरुणाधिकरगं दत्तजलाञ्जलि स्यात् पूर्वपक्षस्यैवासम्भवादिति समासशक्तौ वक्ष्यामः । प्रस्थितं च गुणाधिकरणेन । तद्धितस्य द्रव्यानभिधायकत्वे वाजिनामिक्षयोर्वाक्यविनियोज्यत्वसाम्यात् । न च तद्धितार्थसम्बन्धाक्षिप्तद्रव्यविधिरेव श्रौतः वाजिनं चन तथेति वाच्यम् । एवं ह्याख्याते कर्तुराक्षेपावश्यकत्वेन नानृतमिति निषेधस्यापि श्रुत्या पुरुषार्थत्वसम्भवेन कर्तुरवाच्यत्वसाधनायासवैयापत्तेः सिद्धान्तसिद्धयसम्भवेन कधिकरणोच्छेदप्रसङ्गाच्च । यत्तु प्राधान्येन प्रतीयमामत्वमेव शब्दवाच्यत्वे बीजम् । तच्चाख्यातेषु भावनाया यौगिकेषु द्रव्याणामेवास्ति न तु कर्टसम्बन्धादेः । घटारुणादिपदेषु च जातिगुणयोरपि तदस्त्येव । सत्त्वप्रधानानि नामानीति निरुक्तस्मृतेररुणाधिकरणएव तृतीयार्थसङ्ख्यादेर्गुणेन्वयप्रतिपादनेन तुल्य: तया जातिगुणयोः सङ्ख्यान्वयित्वरूपसत्वभूतत्वात्माधान्यसिद्धः तृतीयान्तपदेषु जातावेव लिङ्गसङ्ख्यान्वयाभ्युपगमात् । तथा च तादृशेष्वेव प्राधान्यसाम्ये आकृत्यधिकरणं शक्यविशेपनियामकमावश्यकमेवेति न तद्धानिरपीति । तन्तुच्छम् । तृतीयान्ते यौगिकार्यसम्बन्धस्यापि सत्त्वभूतताया गुणतुल्यतया दुर्वारत्वात् प्राधान्यादाकृत्यधिकरणन्यायेन वाच्यतापत्तरिति ।