________________
धात्वर्थनिर्णयः ।
प्रयोगश्चोपपद्यते सम्बन्धिनां तथाविधत्वे एव तादृशप्रयोगाणां दर्शनात् । एवं च सम्बन्धे लिङ्गसङ्ख्यान्वयासम्भवादन्यथानुपपन्नलिङ्गसङ्ख्यादिभिरेवाक्षेपः सम्बन्धिन आख्यातसङ्रूपयेव कर्त्रादेः । यद्वा भावनाशब्दोपात्त भावनायाः कर्त्रनाक्षेपकत्वेप्याख्यातोपात्ताया असन्त्वभूतत्वेन तदाक्षेपेकत्ववत्सम्बन्धपदोपात्तसम्बन्धस्य सम्बन्ध्यनाक्षेपकत्वेपि मतुबुपात्तस्य सम्बन्धस्यापि तत्स्यात् । अत एव विभक्तिवाच्यरूपणोति प्रागुक्तमपास्तम् । तथाअनवगत्य सिद्धेः । किं च लिङ्गसङ्ख्यानन्वयित्वमसत्त्वंभूतत्वं षष्ठयादावर्थसिद्धम् । प्रत्ययार्थलिसङ्ख्यादेः प्रत्ययार्थएवान्वयसम्भवात् । सुपां प्रकृत्यर्थान्वित - स्वार्थबोधकत्वव्युत्पत्तेश्च । एवं च नासत्त्वभूतत्वं षष्ठया वाच्यामिति विभक्तिवाच्यरूपेणेति रिक्तं वचः । तस्मात्सम्बन्धवाच्यत्वे दोषाभावादनुशासनाद्यनुरोधेन तस्य वाच्यत्वासद्धेः । सम्बन्धेनैव सम्बन्धी प्रत्येतुं यदि शक्यते । पुनस्तस्याभिधाशक्ति कः श्रुतेः परिकल्पयेदिति गाथा मयापि सुपठा । यत्तु भावप्रत्ययस्य समवेतगुणग्राहकत्वनियम इत्यादि । तन । घटादिपदेपि घटत्वस्यैवाकृत्यधिकरणन्यायेन वाच्यत्व स्वीकारेण तदनुरोधेन भावप्रत्ययस्य प्रकृत्यर्थवाचकत्व स्वीकारस्यैव लाघवादुचितत्वात्सम्बन्धस्य प्रकृत्यर्थतानङ्गीकारे त्वार्थत्वानापत्तेरपरिहारात् । प्रकृत्यर्थसमवेतवाचकत्वस्वीकारेतिगौरवापत्तेः । उक्तन्यायेन घटत्वत्वस्यैव घटपदोत्तरत्वार्थतापतेश्च । ननु प्रकृत्यर्थमात्रवाचकत्वे वैयर्थ्यापत्तिः प्रकृत्यैवार्थोपस्थितिसिद्धेरिति चेन्न । प्रकृत्याभिधानेोपे घटत्वादेराक्षिप्तद्रव्ये विशेषणस्वेनैव तत उपस्थितत्वेन प्राधान्येन बोधार्थं पुनरुच्यतइत्युपपचेः, प्रकृतिप्रत्ययौ सहार्थमिति न्यायेन त्वार्थत्वे विशेष्य
२१
: