SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ११८ वैयाकरणभूषणे उपेयप्रातिपत्त्या उपाया अव्यवस्थिताः । उपेयप्रतिपत्त्यर्थेत्यन्तेनान्वयः । तथाहि । भृगुरुणिवरुणं पितरं ब्रह्म पृष्टवान् । स उवाच । भनामति । पुनरस्योत्पत्त्यादिकं समीक्ष्य पृथ्वान् । पुनः प्राणो ब्रह्मोत । तस्यापि तथा. त्वं बुध्वा पृष्टवान् । ततो मन इति । तस्याप्यशितमन्नं त्रेधा भवति यत्स्थूलं तत्पुरीषं यन्मध्यमन्तन्मांसं यदणीयस्तन्मन इति श्रुतावुत्पत्तिश्रवणात्पृष्टवान् । ततो विज्ञानमय इति । तस्यापि वृत्युपहितत्वेन तथात्वं बुध्वा पृष्टवान् । तत आनन्दो ब्रह्मे. ति । पुनर्वस्तुतस्त्वं प्राप्य स्थितइति तु के चिद्वयाचक्षते । तन्न। पश्चमस्य तत्रानुपायत्वात् । अकोशत्वाच्च । तस्य ब्रह्मखा तमान भूगवल्लीहोदाहर्तव्या । कित्त्वानन्दवल्ली । तत्रत्या हि पञ्चापि कोशा उपाया एव । तत्र हि ब्रह्मपुच्छं प्रतिष्ठेत्यत्र श्रूयमाणमेव ब्रह्मपदं मुख्यब्रह्मसमर्पकम् । अत एवाधारत्वा. थकः पुग्छशब्दोप्युपपद्यते । लांगूलासम्भवेन मुख्यार्थस्य वा. धितत्वात् । कथं तानन्दमयोभ्यासादिति वैयासिक सूत्रमिति चेत् । भानन्दमयशन्दस्य तद्वाक्यशेषे श्रूयमाणब्रह्मपदे तात्प. र्यादित्यादि शङ्करभगवत्पादप्रभृतिभिः प्रपञ्चितम् । एवञ्च यथा पञ्चकोशा भपि सर्वाधारब्रह्मबोधनायैवोक्ताः न तु वास्तवमेषां ब्रह्मत्वं तथैव प्रकृतिप्रत्ययादिभिर्विचारोप्यखण्डस्फो. टबोधनोपाय इति भावः । ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोपि बोधसम्भवान शास्त्रं तदुपाय इति चेत्तत्राह । उपाया इति । उपायस्योपायान्तरादूषकत्वादिति भावः । अत एव के. चित्सुप्रत्ययं केचित्सिप्रत्ययं के चित् रुपत्ययं च विदधाति त. देतदभिप्रेत्याह वाक्यपदीये । “उपायाः शिक्ष्यमाणानां बाला
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy