SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः। बोधापत्तिरिति चे, तवापि वाचकसत्वादश्वोषापत्तिः । पर्णा नुपूर्वीनियामकनियम्याभिव्यक्तेरर्थबोधोपयुक्तत्वात् । न च ह. शान्तो विषमः । एतादृशजातिमानमुकशन्दवाच्य इत्यत्रैव द. शनान्तराणामपेक्षणादिति षाच्यम् । प्रथमदर्शने जातेरवगमे एतादृशजातिमानसुकशब्दवाच्य इत्यस्यापि ग्रहणापतेः । म. स्माकं पुनर्जात्यग्रहादेव विलंबः । तथा च विजातीयप्रत्यक्षाज्जातिग्रहवाद्विजातीयाभिव्यक्त्यार्थबोध इति । अथ प्रथमदर्शने एव जातिगृह्यते पदं पुनस्तज्जात्यवच्छिन्नवाचकं न स्मर्यतइति चेन्न । ममापि स्फोटो व्यज्यते । अर्थस्मरणं पुन र्जायतइत्युपपत्तेः । पदतदर्थयोः शक्तिलक्षणसंम्बन्धस्य परस्परस्मारकत्वाविशेषात् । विजातीयाभिव्यक्तेः पदस्मारकत्व वद्विजातीयाभिव्यक्तरर्थस्मारकत्वादिति दिक। यत्तु वर्णानां व्य. जकत्वेप्येवमेवोपपत्तिरिति तन्तुच्छम् । एवं हि स्फोटासिदेतत्वात् । अत एव च घकारविशिष्टष्टकार एव व्यञ्जकः पूर्वपूर वैवर्णविशेषितोत्तरवर्णविषयकप्रत्यक्षाभ्युपगमात् । एतेन प्रथमादिवर्णैरविशदस्फोटाभिव्यक्तिर्नानुभवसिद्धोति निरस्तम् । स. माध्यन्तरसत्त्वादिति न्यायरक्षामणिस्थः स्फोटवादमङ्गीकृत्य स. माधिः प्रत्युक्तः । ग्रन्थकृतस्त्वाहुः । वर्णमालायां पदमिति प्रतीतेवर्णातिरिक्त एव स्फोटः । अन्यथा कपालातिरिक्त घटासिद्धिप्रसङ्गश्चेति दिक् इति सुधीभिर्विभावनीयम् ॥६॥ नन्वेवं शास्त्राप्रामाण्यप्रसङ्गः पदवाक्ययोरखण्डत्वात् । शास्त्रस्य च प्रकृतिप्रत्ययाभ्यां पदव्युत्पादनमात्रार्थत्वादित्याशका समाधत्ते ।। पञ्चकोशादिवत्तस्मात्कल्पनैषा समाश्रिता ॥६९॥
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy