SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः । ३११ पत्तेः । शब्देनायमर्थो बुद्ध इत्यनुभवाच्च । पश्यत इत्यादावशाब्दत्वानुभवादनुमानेनैव निर्वाहाच्चेति दिक् । तस्माद्वाक्यार्थवाचकं वाक्यमिति सिद्धो वाक्यस्फोटः । नन्वेवं पदार्थबद्वाक्यार्थोपि नानुभूयेतेति चेन्न । न तावद्वाक्यार्थप्रतीतिरनुभवः । स्वर्ग नरकादिकं शृण्वतोपि स्वर्ग नरकं वानुभवामीत्यप्रतीतेः किं तुस्मृतित्वादिव्याप्यमन्यथा वा शाब्दत्वादिकं जातिरनुभववलात् । तत्कारणं पुनरुक्तरीत्या वाक्यज्ञानमिति । नन्वेवमपि न पदज्ञानवाक्यज्ञानयोः सम्भवः । उत्पत्तिपक्षे एकदा तदभावात् । अभिव्यक्तिपक्षेप्येकदा तदभावात् । तथा च न वर्णसमूहरूपपदप्रत्यक्षं सुतरां तत्समूहरूपस्य वाक्यस्येति चेन्न । दर्शनान्तरेप्युक्तदोषतादवस्थ्यात् । अथ प्रत्येकवर्णानुभवजनित संस्कारसहकृतेनान्त्यवर्णप्रत्यक्ष समये सदसदनेकविषया पदप्रतीतिरेवं वाक्यप्रतीतिश्चोपपद्यतइति मतम् । तच्चिन्त्यम् । एवं हि गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यत्रेव वाक्यज्ञाने समूहालम्बनरूपे विशेषाभावाद्बोधापत्तेः । सरो रसः नदी दीन जरा राजेत्यादावप्युपस्थितेस्तुल्यत्वाद्बोधाविशेषापत्तेश्चेति । यस्तु जयतीर्थेनोक्तम् । अनुभवक्रमोपहितानामेव तेषां स्मृत्यावगाहनान्न क्रमव्युत्क्रमयोरविशेष इति । तत्तच्छम् । अनुभवस्मृत्योः क्रमे निय माभावात् । दृश्यते च प्रपूर्वेद्युरनुभूतस्य स्मरणम् । किं च संस्कारस्मरणयोः समानविषयत्वात्क्रमस्य च संस्काराविषयत्वेन न स्मरणविषयत्वम् । एवं च समूहालम्बनरूपं स्मरणमपि घ काराकारटकारा इति भवेन तु घट इत्येतादृशमिति । अथोत्तरवर्णप्रत्यक्षकाळे ऽव्यवहितोत्तरत्वसम्बन्धेन पूर्वपूर्ववर्णवत्त्वमुत्तरोत्तरवर्णे, एवं तदुत्तरवर्णप्रत्यक्षकाले उपस्थित विशिष्टतद्वर्णवत्वमुत्तरवर्णे सुग्रहमिति तादृशानुपूर्वीघटितं पदत्वं सुग्रहमेवं वा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy