________________
३१२
वैयाकरणभूषणे क्येपीति मतम् । सममेतदस्माकमपीति एतेनैतदनुपपत्या ऽख.. ण्डस्फोटाभ्युपगमः कैयटोक्तो न श्रद्धेयः ॥
इदानीमखण्डपक्षमाह ॥ पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ॥६॥ वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन । ___ पदे पचतीत्यादौ न वर्णाः । तत्र दृष्टान्तव्याजेनाह । वर्णेविति । यथा न वर्णेष्ववयवास्तथेत्यर्थः । इति पाठः सुगमः। एवं वाक्येप्याह । वाक्यादिति । अत्यन्तं विवेको नास्ति । अयं भावः । वाक्यं पदं चाखण्डमेव । अनन्तवर्णकल्पने मानाभावात् । ककारादिकं शृणोमीतिप्रतीतिर्मानामति चेन्न । तस्याखण्डपदार्थविषयत्वात् । तत्तद्वोत्पादकत्वेनाभिमतवायुसंयोगविशेषाभिव्यक्ताखण्डपदार्थस्यैव कत्वादिना प्रतीत्युपपत्तेः । अथाखण्डपदार्थस्यैव व्यञ्जकवैचित्र्यात्कत्वादिना प्रतीतौ ककार उत्पन्न इति न स्यात् । स्फोटस्योत्पत्त्यभावात् । व्यञ्ज. कनिष्ठाया उत्पत्तेस्तत्रारोपाभ्युपगमे ज्ञानादीनामपि नित्यतापत्तिः । किं च घटादेरपि कपालसंयोगविशिष्टस्फोटरूपत्वापत्तिनित्यत्वापत्तिश्चति चेन्न । सत्कार्यवादिना नित्यताया ज्ञानादिगताया इष्टत्वस्य वक्ष्यमाणत्वात् । घटादिकं चाविद्याकल्पितो मृद एवावस्थाविशेषः । आविद्यकजलाहरणादिकार्यानु. रोधेन स्वीकरावश्यकत्वात् । उत्पत्यादिप्रतीतिरपि वक्ष्यमाणरीत्या नानुपपन्नेति । नन्वेवं विलक्षणो वायुसंयोग एव तहेतु. रिति न्यायावाचकोपि स्यादिति चेन्न । प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् । स्फोटस्य च शृणोमीत्यनुभवादावश्यकत्वात् । तस्माद्वायुसंयोगनिष्ठं तत्तद्वर्णजनक