SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः। तितज्ज्ञानस्य हेतुत्वे गौरवापत्तिरित्युक्तम् । घटः कर्मत्वमित्यादा. वाकांक्षाज्ञानविरहाद्वोपविरहः । अन्वयांशे शक्तिज्ञानवतोप्यबोधाच्चेत्युक्तम् । एवं जिज्ञासानुरोधादन्वय सामान्ये शक्तिरित्यप्यसङ्गतम् । दृष्टे समीचीनफले रसादिजिज्ञासावदुपपत्तेः । ताई तदेवानापि जिज्ञासानियमो न स्यादिति चे, दिष्टापत्तेः। किं चैवं बन्यो विशेषरूपेण शक्यः स्यात् । जिज्ञासायास्तथात्वात् । ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावात् । अन्यथा द्रव्यत्वादिना ज्ञाते सुवर्णत्वादिना ऽज्ञाते तेन रूपेणेच्छा. पत्तेः । नन्वेवं सति जिज्ञासोच्छेदः । येन रूपेण ज्ञानं वृत्तं तेन रूपेण सिद्धिसत्वादिच्छाया असंभवात् । येन च रूपेण न ज्ञातमेव तेन रूपेण कारणाभावेनासम्भवादिति चेन्न । सिद्धत्व. ज्ञानस्यैव सर्वत्र प्रतिबन्धकत्वात् तदभावादेव मित्रासोपपत्तेः । घटो मेस्त्वितीच्छायामसिद्धेपि तस्मिन् तत्सिदत्वाज्ञानादिनेच्छानिवृत्तदर्शनात् । न च येन रूपेण यत्रेच्छा तेन रूपेणं सि. दत्वधीरेव प्रतिबन्धिकेत्यपरत्रास्तु । अत्र तु सा सिदिरेव प्र. तिबन्धिका कल्प्यता लाघवात् । घटज्ञानं मे जायतामितीच्छा. यां जाते तस्मिंस्तत्सिद्धत्वप्रतिसन्धानमन्तरेणैवेच्छानिवृत्तेरानुभविकत्वादन्यथा गौरवाचेति वाच्यम् । चैत्रस्य ज्ञानं भववितीच्छा. यामजाते च तस्य ज्ञानं जातमिति सिद्धत्वज्ञानादिच्छानिवृत्तेः स. वानुभवसिद्धाया अपलापापत्तेः । सिद्धेळधिकरणत्वेन प्रतिबभकत्वासम्भवाच्च । तदानी मे ज्ञानं भववितीच्छायां तदानीं मे जातमित्यादिकालान्तरीयज्ञानविषयकसिद्धत्वज्ञानेनापि प्रतिबन्धाच्च । तस्मान जिज्ञासानुपपत्तिः । अथ वा पूर्व विशेपतः संसर्गावगमपि स आपातरूप एव । कथमन्यथा ब्रह्माजज्ञासा स्यात् । प्रपञ्चितं चैतद्विवरणतन्त्वविवेकादावेवेति ध्ये.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy