SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३०८ वैयाकरणभूषणे घटप्रकारक कर्मत्वाविशेष्यकशाब्दबोधे घटपदोत्तरं द्वितीया इत्यादिकार्यकारण भावनानात्वविरहान्न दोष इत्याहुः । एतेन यन्नृसिं हाश्रमैस्तत्त्वविवेकादायुक्तम् । वृत्तिं विना शाब्दबोधविषयत्वासम्भवाद्वृत्तिर्वाक्यार्थविषयिणी स्वीकार्या । सा चातिरिक्ता गौरवान्नेति क्लृप्तपदार्थशक्तिरेव तद्विषयिणी कल्प्यते । पदानामन्वयसामान्ये शक्तौ तु विंशेषमविषयीकृत्य सामान्यबुद्धेरपर्यन सानात्तत्तत्पदसामान्यशक्तिभिरेव समभिव्याहृतपदोपस्थापितपदार्थविशेषनिरूपितान्वयविशेषः सेत्स्यतीत्येक शक्तिलाघवम् । किं चैकपदप्रयोगेष्यन्वयविशेषस्य नियमेन जिज्ञासादर्शनात्तस्याचान्वयसामान्यज्ञानपूवर्कत्वात्तज्ज्ञानस्य च शब्दादन्यतो ऽसम्भवाच्छन्द एवान्वितमभिधतइति वाच्यम् । दृष्टे जम्बीरफलादौ रसविशेषजिज्ञासावद्भविष्यतीति चेन्न । तत्र नियमेन तदभावात् । अन्यथा वैशेषिकमतइन व्याप्तिप्रतिसन्धानदशायामेव शब्दादर्थसंसर्गः प्रतीयतइति शब्दोप्यप्रमाणं स्यात् इति । यदप्यपरे, अन्वयांशे शक्त्यनभ्युपगमे घटः कर्मत्वमानयनं कृ तिरिति पदजातादन्वयधीः स्याद्योग्यतादेः सत्त्वात् । न चैताहशं पदजातं शिलाशकलमिवांकुर स्वरूपायोग्यम् । एवं सति विपरीतव्युत्पन्नस्यापि बोधानापत्तेः । न च शक्तिभ्रमात्तस्यान्वयधीः । स्वरूपायोग्यस्य सहकारिशतकेनापि कार्याजनकत्वात् । तस्मात्स्वरूप योग्य मेवान्वर्याशे शक्तिज्ञानरूपसहकारिसच्त्वाद्विपरीतन्युत्पन्नं प्रत्यन्वयबोधकम् । अन्यं प्रति तद्रहितत्वानेत्यन्वयांशे शक्तिरवश्यमुपेयेति विवरणाचार्यानुयायिनो वदन्ति । तदप्यपास्तम् । बोधकतारूपायाः शक्तेरन्वयबोधस्यापि जायमानत्वात्तदंशे स्वीकार आवश्यक इति सत्यम् । परं तु सा वाक्ये एव स्वीकर्तव्या न तु पदे । तथा सति समभिव्याहारोपि कारणमि ·
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy