________________
स्फोटनिर्णयः ।
३०७ अक्तमिति व्युत्पन्नस्यापि घटमित्यानुपूर्वीज्ञानतात्पर्यज्ञानादिमते. पि च घटकर्मकानयनमिति बोधः प्रागुक्तकार्यकारणभावग्रहाभाववतोपि भवेत् । न चेष्टापत्तिः । विशेषणविशेष्यभावे विनि. गमनाविरहात्सामान्यत एव शक्त्या चेतरान्वितो घटा, इतरान्वितं कर्मत्वमित्येवापत्तेः । न घटीयं कर्मत्वमिति । तथा शक्त्यनङ्गीकारात् । घटः कर्मत्वमानयनं कृतिरित्त्यत्रेतरान्विते कर्मत्वे तादृशे मानयने इत्यादिशक्तिग्रहवतो बोधापत्तेश्च । अत एव तत्रैवानुव्याख्याने “ यदा शेषविशेषाणामुक्तिः सामान्यतो भवेत् । पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् । अतः सामान्यतो ज्ञातः प. दान्तरवशात्पुनः । भवेद्विशेषतो ज्ञातस्तेन स्यादन्वितोक्तिते". ति प्रथमाध्याये चोक्तं सुधायाम् । शक्तिश्चैवान्विते स्वार्थे इति कारिकाव्याख्यायां विशेषान्वयप्रतिपत्त्यर्थं पदान्तरसमभिव्याहारोपयोग इति, पदान्तरसमभिव्याहाराद्विशेषप्रतिपत्त्युपपत्तेरिति चेति । तस्मात्ताशसमभिव्याहारकार्यकारणभावावश्यकत्वे मास्तु पदानामन्विते शक्तिरिति सिद्धम् । किं च । सखण्डवाक्यस्फोटखण्डनमेतदखण्डस्य वा । नायः । पदसमूहरूपस्य तस्य नृशृङ्गतुल्यताक्तिविरोधापत्तेः । नान्त्य इति तु वक्ष्यते । तस्मा. त्स्फोटपदश्रवणमात्रात्खण्डनं तन्मताज्ञानविजृम्भितमेवेति ध्येयम्। एतेन कार्यान्विते शक्तिरपास्ता । के चिन्तु पदानामन्विताभिधायकत्वे घटमानयेत्यत्र बोधचतुष्टयापत्तिः । इतरान्त्रितो घटः, तथा कर्मत्वं, तथैवानयनं, तथैव कृति,रिति । न च तवापि चैत्रो घटमानयतीत्यादौ घटीयं कर्मत्वं तदीयमानयनं तदीया कृतिस्तद्वाक्षेत्र इति विशेष्यभेदप्रयुक्तवाक्यभेदापत्तिः। अस्माकं सशक्योभवतां पुनरवक्योप्याकांक्षादिलभ्य इत्यत्रैव विशेषादिति वाच्यम् । नहि विशेष्यभेदादावृत्तिमापादयामः किं तु शक्तिभेदात् । मम तु