SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २०६ वैयाकरणभूषणे त्यात् । एवं च तत्रैव विशेष्यप्रकार विशिष्टविषयतायाः सम्बधत्वे विपरीत गौरवं स्यात् । दण्डीति बोधोत्तरं दण्डिमानिति बोधात्तज्ञ्जनकतावच्छेदिका नायं दण्डीत्यादिज्ञानप्रतिबन्धकताबच्छेदिका च दण्डीत्यत्र दण्ड पुरुषसंयोग साधारण्येका विषयता बाच्यां । सैव शक्तिज्ञानकार्यतावच्छेदिकास्ताम् । अत्र दण्ड इतिशब्दादयं दडीत्यादिवारणं तु वाक्यशक्त्यैवेत्यपि वदन्ति । एवं सत्यपि यद्यशब्दार्थ एव वाक्यार्थस्तर्हि पदार्थोपि तथैव स्यात् । उक्तं हि वाक्यपदीये । “ अशाब्दो यदि वाक्यार्थः पदार्थोपि तथा भवेत् । एवं सति च सम्बन्धः शब्दस्यार्थेन दीयत" इति ॥ तस्माद्वाक्यार्थवाचकं वाक्यमिति सिद्धम् । अत एव तस्य वा क्यार्थत्व किंवदन्ती सङ्गच्छतइति विभावयामः । माध्वास्तु, न वाक्यार्थबोधकतया वाक्यस्फोटसिद्धिः पदानामेवान्विताभिधायकत्वात् । पदैरेवार्थप्रतीत्युपपत्तौ तत्र मानाभावात् । तदेतस्तृतीयाध्याय द्वितीय चरणसमाप्तायुक्तमनुव्याख्याने । " कर्तृकर्मक्रियाणां तु पूर्ती कोन्योन्यो भवेत् । अपूर्तिश्चेत्पदैरुक्तैः किं नृशृङ्गेण पूर्यत " इति । अत्र जयतीर्थः । कर्मेत्युपलक्षणं जिज्ञासितानां पदार्थानामित्यर्थः । भवेत् । प्रतिपादनीय इति शेषः । स्फोटमन्वयप्रतिपादकं बदता तत्र प्रमाणं वाच्यम् । तच्च न । अन्वयबोधस्य पदैरुपपत्तेरिति भावः । एवमनङ्गीकारे बाधकमाह । अपूर्तिरिति । अन्वयस्येत्यादि । नृगृङ्गेण | स्फोटेन । अप्रमाणकत्वात्तत्सादृश्यम् । पदादन्वयबोधवादिनो लाघवं पदानामावश्यकत्वात्, स्फोटवादिना गौरवं निष्प्रमाणकस्फोटस्य तस्यान्वयबोधकत्वस्य च कल्पनीयत्वादितिं भाव इति व्याच ख्यौ । तस्माद्वाक्यार्थप्रतीत्यर्थ न स्फोट इत्याहुः । तदेततुच्छम् | पदानामेवान्विताभिधायकत्वं घटादिपदमितरान्वितघटे 1
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy