SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः। २०५ तिप्रसङ्गात्पृथकवत्तिज्ञानस्य हेतुत्वे मानाभावादिति चेन्न । अनन्तकार्यकारणमावे वृत्तिप्रवेशे गौरवमपेक्ष्याकांक्षायां पदजन्यज्ञानत्वेनैव प्रवेशस्योचितत्वात् । तथा च घटपदादाकाशस्य समबायेन देवदत्तयज्ञदत्तादेश्व जनकतयोपस्थितस्य शाब्दबोधविषपतापत्तेवारणाय विषयतया शान्दबोधत्वावच्छिन्ने वृत्तिजन्योपस्थितेस्तथाहेतुत्वमावश्यकम् । अस्माकं पदैः पदार्थानां वाक्याद्वाक्यार्थस्य बोधाभ्युपगमाविशेषणविशेष्यभावव्यत्यासासम्भपाच । यथोपस्थितानामेव वाक्यशक्त्या संसर्गबोधात् । यन्तु घटशक्तं पदं घटान्वयबोध जनयतीत्येव नियमस्वीकारामानुपपत्तिरिति । तन्न। एवमपि वृत्तिज्ञानकार्यकारणभावानुरोधेन शक्ति. कल्पनावश्यकत्वात् । उक्तरीत्यैवोपपत्तौ घटान्वयबोधं प्रति घट. शक्तपदज्ञानत्वेन हेतुतेत्यनेककार्यकारणभावान्तरकल्पने गौरवाच्च । न चैवमपि पदार्थशाब्दत्वमेव वृत्तिज्ञानकार्यतावच्छेदक वाच्यमिति वाच्यम् । संसर्गस्यापि वाक्यार्थसंसर्गादिपदार्थत्वात् । तत्तत्समभिव्याहतपदार्थबोधत्वमवच्छेदकमित्यपि न । अनन्तकार्यकारणभावप्रसङ्गात् । अथ विशेष्यत्वप्रकारत्वादिसम्ब. न्धेन शाब्दबोधत्वमेव वृत्तिज्ञानकार्यतावच्छेदकमस्तु । तेन च सम्बन्धेन न शाब्दत्ववाक्यार्थी अतो न तत्र वृत्तिः कल्प्या। तत्र लाघवाद्विषयतैव तत्कार्यतावच्छेदिका । तस्या एकस्यास्त्रितयसाधारणाया अभावात् । विशेष्यत्वादित्रय्येव सामान्यश. ब्देनाभिधीयते । विशेष्यादित्रितयव्यवहारानुरोधेन विषयतात्रयस्यावश्यकत्वात् इति चेत्, मैवम् । ज्ञानातिरिक्तविषयताया मानाभावात्तज्ज्ञानसम्बन्धेन शाब्दत्वस्यैव कार्यतावच्छेदकत्वा. त् । तत्तद्विषयविशिष्टज्ञानस्यैव विशेष्यत्वादिरूपत्वात् । अतिरिक्तविषयतापक्षेप्येवमेव व्यवहारलक्षण्योपपत्तौ त्रैविध्यानौचि
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy