SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः । ३०३ - वग्रहवतश्च बोधात्तादृशबाने तादृशकार्यकारणभावस्य हेतुत्वावश्यकत्वात्स एवाकांक्षा । एवं चायमेतीत्यादिवारणाय तात्पर्यज्ञानमपि हेतुरिति चेत्तथापि सिद्धो वाक्यस्फोटः । पदज्ञानकार्यकारणभावरूपपदशक्तिज्ञानस्येव तत्समुदायरूपवाक्यज्ञानकार्यकारणभावरूपवाक्यशक्तिज्ञानस्यापि शाब्दे हेतुतायास्त्वयाप्यभ्युपगमात् । एवं च वाक्यशक्तिरेवाकांक्षेति परपरिभाषामात्रमवारीच्यते तदपि तस्यावृत्तित्वेन विरुद्धम् । एवं चैतदनुरोधेनान्वयांशस्य शक्यत्वानिरसनमयुक्तम् । न चैवं समासग्रहणं नियमार्यमित्य सङ्गतम् । गमानयेत्यादिसमुदाये त्वया शक्तयनभ्युपगमात् । सुबन्ततिङन्तयोश्च प्रत्ययान्तत्वेनैव वारणादिति वाच्यम् । द्वितीयादेर्धातुविशिष्टस्य प्रादिपदिकत्वापत्तेः । तयोरुक्तरीत्या शक्तिसत्वात् । न च धातोः प्रत्ययान्तत्वादप्रत्यय इति पर्युदासापत्तिः । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषया दोषविरहात् । अथ वा गामानयति वा क्ये एका समुदायशक्तिरस्तु । तथा च नोक्तदोषसम्भावनापि । न च तदज्ञाने ऽपि प्रागुक्तशक्तिज्ञानादेव बोधात्तस्य व्यभिचारः । विशिष्टशक्तिग्रहमात्रेणापि त्वदुक्ततदग्रहे बोधात् । विशिष्टशक्तिग्राहकस्य तदादिवत्कारकविभक्तिविशिष्टपदयोर्विशिष्टयोस्तत्कारक विशिष्टक्रियाबोधकत्वमिति सामान्यतः शक्तिग्रहो ऽनन्तरं पदविशेषसमभिव्याहारे सति तात्पर्यवशात्पदार्थविशेषविशिष्टक्रियाविशेषबोध इत्यभ्युपगमात् । स्वयापि सामान्यतः कार्यकारणभावस्वीकारात्तत्कार्य कारणभावग्राहकस्यैव समुदायशक्तिग्राहकत्वमिति स्वीकारेणैव व्यभिचाराभावाच्च । न चैवमपि तत्तत्समभिव्याहारानन्त्याच्छक्तयानन्त्यं तवापि तुस्यत्वात् । यदि घटप्रकारकशाब्दबोधमात्रे घटार्थक पदोत्तरविभ P
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy