SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३०२ वैयाकरणभूषणे सर्वत्रैवहि वाक्यार्थो लक्ष्य एवेति ये विदुः ॥१७॥ भाट्टास्तेपीत्थमेवाहुर्लक्षणाया ग्रहे गतिम् ॥ स्पष्टमेत् । अथ गामानयेत्यादौ पदैः पदार्थानामुपस्थितौ वा. क्यार्थज्ञानसम्भवान्मास्तु शक्तिः। म चात्र पदशक्त्यज्ञानोप समु. दायशक्त्या बोधोनुभविकानाम् । यन्तु वाक्यमखण्डमेव न पद. समुदाय इति नायं दोष इति । तन्न । अखण्डस्य पक्षान्तरत्वात् । तस्माद्धरेवेत्यत्रैव समुदायशक्तिरिति मतं व्याख्येयम् । वस्तु. तस्तु सर्वत्रैव पदैः पदार्थी उच्यन्ते वाक्येन वाक्यार्थ इति सिद्धान्तमर्यादा । अत एव समासग्रहणं वाक्येतिव्याप्तिवारणायेति ग्रन्थाः सङ्गच्छन्ते । तथा च पदैः पदार्थानामुपस्थितावपि वाक्यार्थे विना वृतिं न शान्दबोधविषयत्वसम्भव इति समुदायशक्निराद्रियते । नन्वाकांक्षादिसहकारेण पदान्येव वाक्यार्थबोधकानि भविष्यन्तीति चेन्न । गुरुभूताकांक्षायोग्यतादिज्ञानकारणत्वे मानाभावात् । नन्वेवं घटः कर्मत्वमित्यत्रापि बोधापत्तिः । अयमेति पुत्रो राज्ञः पुरुषोपसार्यतामित्यादौ राजपदस्य पुरुषेण सममन्वयानुभवे आकांक्षायां पुत्रेणान्वयापत्तिश्चेति चेन्न । घटः कर्मत्वमित्यादौ शक्तिग्रहसत्त्वे इष्ट एव बोधः । स एव विपरीतव्युत्पन्नः । अन्यस्य तदभावादेव नेति सम्भवा. त् । अयमेतीत्यादौ तात्पर्यज्ञानाभावान्न बोधः । तस्य तवाप्यावश्यकत्वात् । तदघटिताया आकांक्षाया दुर्वचत्वात् । अथ घटमानयेत्यादौ घटेपदाम्पदयोः प्रत्येकं गृहीतशक्तिकस्य ता. दृशानुपूर्वीज्ञानतात्पर्यज्ञानादिमतश्च घटकर्मकानयनमिति बोधाभावात्तादृशबोधे घटपदोत्तरं द्वितीयायास्ततो धातोस्तत आ. ख्यातस्येत्यादिसमभिव्याहारः कारणमित्यादिकार्यकारणभा.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy