SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः। ३०१ त्ययवदिति परिमलोक्तरीत्या वाच्यम् । समं तब स्माकमपीति । यदि चान्विते शक्तिः परं वन्वयांशे सेवाज्ञाता पदार्थाशे च सैव ज्ञातोपयुज्यतइति कुब्जशक्तिवाद इत्यभ्युपगमस्तास्मा. कमपि वाक्यशक्तिरज्ञाता पदशक्तिस्तु ज्ञातैव तयेति । नन्वाकांसादिसहकारेण जानबुद्धरेव शाब्दत्वात्तदतिरिक्तशाब्दाभावादा. या पक्षो न युक्तः । आकांक्षादिजन्यातिरिक्तशाब्दबोधे प्रमाणाभावात् । किं चैवमनधिगतार्थगन्तृता वेदस्य मीमांसाद्वयसि दोच्छिद्येत । अथ प्राथमिकबोधस्य वृत्तिजन्यत्वाभावाच्छान्द. त्वं न सम्भवतीति तज्जातिप्रकारकानुभवादेव बोधान्तरं क. ल्प्यते । पदजन्यपदार्थोपस्थित्याकांक्षायसहकृतप्रमाणबोध्यबो. धकत्वं चाधिगतार्थगन्तृत्वमिति चेत्स्यादेवं यदि बोधद्वयमनुभवसिद्धं स्यात् । अन्यथानुपपत्तेरभावाच्च । किं च वृत्तिजन्यत्वा. नुरोधेन बोधान्तरकल्पनेन्वितशक्तिरेव सिध्येत् । लक्षणाज्ञानका. र्यकारणभावान्तरस्य आकांक्षादिनम्योपस्थित्यन्तरस्य चाकल्पनेन लाघवात् । एवमज्ञाताया वृत्तेरनुपयोगात्र द्वितीयः प्रकारः साधुरित्याशयेन प्रकारान्तरमाह । लक्षणादिति । लक्ष्यते त. क्यते अनेनेति लक्षणं मनस्तस्मात् । अयमाशयः । वृद्धव्य. वहारात्प्राथमिकशक्तिनिर्णयो यथा मनसा । तथा ऽत्रापि पदैः पदार्थोपस्थितौ सत्यां मनसा तदुपस्थिति नुपपन्ना परं तु मानसं ज्ञानं संशय प्रायो दुर्वारमिति शाब्दादरः । शक्तिग्रहे - तु लिङ्गादनिर्णायकस्य सन्त्वान्न संशय इति । वस्तुतस्तात्पर्यज्ञानरूपामेवोपास्थतिमादायान्वयांशशक्तिहस्तात्कालिक एव । अत एवाकांक्षादिसहकृतमनसः संशयाजनकत्वेपि न दोष इति ध्येयम् ॥ ६६ ॥ इयमेव मीमांसकानां तदनुयाथिनां च गतिरित्यारं ॥
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy