SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०० वैयाकरणभूषणे घटेनेत्यादौ नेत्येव प्रत्यय इत्यस्य सुवचत्वात् नोक्तानुपपत्तिः, वैयाकरणैः सुखेन ज्ञातुं शक्यत्वाच्चेत्याशयेनाह। वस्नसादावि. ति । बहुवचनस्य वस्नसावित्यतः समुदायस्यैव तद्विधानान्न त. द्विभागा ज्ञातुं शक्य इत्यर्थः । वस्तुतो ऽवैयाकरणानां प्रत्येक तदज्ञानेपि समुदाये व्युत्पन्नानां बोधदर्शनात् घटेनेत्यादावप्यनुः पपत्तितादवस्थ्यम् । न च तेषां शक्तिभूमसम्भव इत्यसकृदावदि. तमित्याशयेनाह । इवेत्यादि ॥६५॥ एवंरीत्या वाक्यस्फोटमप्याह । हरेवेत्यादि दृष्ट्वा च वाक्यस्फोटं विनिश्चिनु । अर्थे विशिष्य सम्बन्धाग्रहणं चेत्समं पदे ॥६६॥ लक्षणादधुना घेत्तत्पदेर्थेप्यस्तु तत्तथा । अत्रादिना विष्णोवेत्यादि गृह्यते । अत्र पदयोः स्पष्टपज्ञानेपि समुदायव्युत्पत्त्या बोधादावश्यिकैव समुदायशक्तिरिति भावः । ननु वाक्यस्य प्राक्छक्तिग्रहासम्भवो वाक्यार्थस्यापूर्वत्वादित्याशंक्य समाधत्ते । अर्थइति । पदनिष्ठैर वाक्यार्थबो. धानुकूला वृत्तिरिति पक्षेपि सममेतदित्यर्थः । अयमाशयः । येषां मते वाक्यार्थो लक्ष्यो येषां वान्विते शक्तिस्तेषामती प्राक् तदनुपस्थितेत्तिग्रहासम्भवात्कथं निस्तारः । अथ पदैः पदा. नामुपस्थितावाकांक्षाज्ञानसाचिव्यात्तत एव वाक्यार्थोपस्थितावपि वृत्त्यानुपस्थितत्वान स बोधः शान्द इति मध्ये लक्षणानहः। प्रागविज्ञातहरिद्रानामकनदीविशेषेण हरिद्रायां नयांघोष इति श्रुते वाक्ये नदीपदसमभिच्याहारेण तदानीमेव हरिद्राशब्दस्य नदीविशेषशक्तिग्रहणेन नदीलिङ्गात्तत्सम्बन्धित्वेनावगततीरम
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy