SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ स्फोइनिर्णयः। २९७ नियामकाभाव एवाव्यवस्था । आदेशानां तु नियतत्वान्नायदो. प इति सुधियां पन्थाः । साधकान्तरमाह । व्यवहृतेरिति । व्य. वहारस्तावच्छक्तिग्राहकशिरोमणित्वेन सर्वैमन्यते । स च भूयमाणतिडादिष्वेवेति तएव शक्तास्तथा च गौरवं प्रामाणिकमिति भावः । किं च तदेतुन्यायत इति । अयं भावः । लकारस्य बोधकत्वे भूल इत्यतोपि बोधः स्यात् । तादृशबोधे पचतीति समभिव्याहारोपि कारणमिति चेत् । अस्तु तावश्यक त्वात्समभिव्याहारस्यैव वाचकत्वशक्तिः । तत्रापि ताशवर्णस. मभिव्याहारो वा समभिव्याहृना वर्णा चा वाचका इत्यत्र विनिगमनाभावात्प्रत्येकावृत्तिनः समुदायावृत्तित्वाच्च समभिव्याहता वर्णा एव वाचकाः । न च द्वित्ववत्प्रत्येकात्तित्वेपि तत्स. म्भवः । तत्रापि प्रत्येकं समवायेन वृत्तित्वस्वीकारात् इति । के चिन्तु आदेशेनादेशी स्मार्यते तेनार्थो बोध्यतइति मते येस्मन्मते वाचकतावच्छेदकास्ते तन्मते स्मारकतावच्छेदका वाच्यास्तथा च तदेतुरिति न्यायेन तएव वाचकावच्छेदका इति भावः । न च येन केन चिद्रूपेण स्मारकत्वमिति शङ्कयम् । अतिप्रसङ्गादित्याहुः । अत एवोक्तलाघवाल्लकारो वाचक इति निरस्तम् । लकारस्योभयत्रापि साम्यात्कृत्तिकोः कर्तृभावनावाचकत्वनियमो भवसिद्ध एव न स्यादित्याह । किं चेति । आदेशानां वाचकत्वे तु तेषा नानात्वादुपपद्यते ऽयं विभाग इति भावः । यत्तु शानजादिभिभिन्नया शक्त्या कर्ता उपस्थाप्यतइति । तच्चिन्त्यम् । तेषां कर्तरि भिन्नशक्तेरसिद्भः। कर्तरिकृदिति च नात्र प्रवर्तते इति विवेचितं द्वितीयका. रिकायाम् ॥ ननु नामार्थयोर्भेदेनान्वयायोगाचैत्रः पचमान इत्यादावन.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy