SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः । २९५ - यद्यपि वर्णस्फोटः पदस्फोटो वाक्यस्फोटो ऽखण्डपदवाक्यस्फोटौ वर्णपदवाक्यभेदेन त्रयो जातिस्फोटा इत्यष्टौ पक्षा: सिद्धान्तसिद्धा इति वाक्यग्रहणमनर्थकं दुरर्थकं च । तथापि वाक्यस्फोटातिरिक्तानामन्येषामप्यवास्तवत्व बोधनाय तदुपादानम् । अत एवाह । अतिनिष्कर्षइति । मतस्थितिर्वैयाकरणाना. म् । स्फुटति प्रकाशते ऽर्थो ऽस्मादिति स्फोटो वाचक इति यावत् । तथा च वर्णस्फोटादिपदानां वर्णादयो वाचका इत्यर्थः । तत्र क्रमेण सर्वान् तानिरूपयन्वर्णस्फोटं प्रथमत. आह । साधुशब्दइति । साधुशब्दे । निष्कृष्टपदे रामः भवतीत्यादौ । अन्तर्गताः विसर्गतिवादयः । बोधकाः वाचकाः । बोधकत्वमेव शक्तिरित्यधस्ताद्विवेचितत्वात् । न तु तैः स्मृताः स्वादयो लादयश्चेत्ययः । प्रयुज्यमानपदसमभिव्याहारानन्तर्गता वर्णा वाचका न वा इत्येवात्र विप्रतिपत्तिशरीरमिति भावः । अत्र विधिकोटिः परेषां निषेधकोटिरस्माकम् ॥ ६१ ॥ ___ अत्र दर्शनान्तराभिनिवेशिनः प्रयोगसमवायिनस्तिबादयो न वाचकास्तेषां बहुत्वादनन्तशक्तिकल्पनापत्तेः । शक्ततावच्छेदकत्वकल्पनाप्यनेकेषु स्यादिति गौरवं च । किं तु तैः स्मृत आदेशिनो लकारा वाचका लत्वस्य जातिरूपतयाँ तस्याएव शक्ततावच्छेदकत्वौचित्यात् । न चैवं भूल इत्यत्तोपि बोधः स्यात् इति वाच्यम् । तादृशबोधे पंचंतीत्यादिसमभिव्याहारस्यापि कारणत्वात् । अन्यथा भतिवेत्यतोपि बोधापत्तेः। न चैवमपि तानजानतां बोधो न स्यादिति वाच्यम् । तेषां तिब्वेव शक्तिभूमावोधात् । अपभ्रंशाबोधस्थले कल्पनात् । अथवं श. . त्रादिस्थले कर्तृकर्मणोर्वाच्यत्वं न स्यात् । स्याच्च कृतिमात्रं तथा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy