SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ क्वादिप्रत्ययार्थनिर्णयः। १९१ स्वेप्यानन्तर्यमात्रे लक्षणति परास्तम् । तस्मातत्कालीनमा गभावप्रतियोगित्वरूपं तदधिकरणसमयसाधिकरणसमयो. स्पत्तिम स्वरूपं वा आनन्तर्य शक्यमिति ततोपि न. वीनाः परिष्कुर्वन्ति । रामकृष्ण भट्टाचार्यास्त्वाहुः । मान. न्तर्य वा पूर्वकालत्वं वा यत्किञ्चिच्छक्यमस्तु । सर्वथा मुखज्यादानोत्तरं तदभावकाले मुखं ज्यादाय स्वपितीत्यावर योगः । कथं बोभयानन्तर्याविशेषेपि मुक्त्वैवाहं तृप्तो न तु पी. स्वेत्यपि । कथं वेश्वरो ज्ञात्वा तिष्ठतीत्यादिकम् । तस्माज्जन्यत्वव्याप्यत्वादिकमपि क्त्वायर्थः । तथा च मुखं ज्यादायेत्या. दौ कालिकादिसम्बन्धेन व्याप्यत्वाभिप्रायेणैव प्रयोगादन्यदा. तननिद्रायास्तथास्वाभावात्र प्रयोगः । अत एवाध्ययनका. लीनस्थितिमादायैवाधीत्य तिष्ठतीति प्रयोगो नाध्ययनाभावका लीनस्थितिमादायेत्युपपद्यते । अत एवैष सम्प्रसादोस्माच्छ, रीरात्समुत्थाय परं ज्योतीरुपसम्पद्य स्वेन रूपेणाभिनिष्पयतइति श्रुतौ ज्योतिदर्शनादिति न्यायेन ज्योति:पदस्य ब्रह्मपरस्वे स्थिते उपसम्पद्यति त्वाश्रुतेरुपपत्तिः कालिकव्याप्तनि: बांधत्वादिति । इत्यादि सर्वमनादेयम् । उक्तरीत्या सम्बन्ध विधयैवैषां भानोपपत्तौ वाच्यत्वस्यायुक्तत्वात् । अत एव । वाक्यार्थीभूत एव । सम्बन्ध इह द्योत्यो न पदार्थभूत इति कर्मप्रवचनीयेभ्यो वैलक्षण्यम् । तस्मात्समानकर्तृकत्ववज्जन्यत्वव्या. प्यत्वपूर्वकालिकत्वानन्तर्यादयः संसर्गतयान्यलभ्या वाक्या भूता न शक्याः । तथात्वे वा सर्वत्र वाक्यार्थस्य शक्यत्वाप. त्तिरिति तात्पर्यग्राहकाः क्त्वादयः । परिमलोत्तं तृतीयापादनमप्ययुक्तम् । स्वामिणमल् इति सूत्र अव्ययकृतो भावे इति भाज्यमादाय पक्त्वोदनं भुके देवदत्त इत्यत्र तृतीयामाशंक्या.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy