________________
२९०
वैयाकरणभूषणे
- तुमादयः, तुमुनादयः । प्रकृत्यर्थे, भावे । आदिना क्त्वादेः संग्रहः । भाव इत्यत्र मानमाह । अव्ययकृत इति । अव्ययकृतो भाव इति वार्त्तिकादित्यर्थः । भाष्यकारास्तु तुमर्थसूत्रे तु. मर्थो भाव इति व्यवस्थाप्याने तदनुत्तिं स्वीकृत्य च तुमुन: समानाधिकरणे अव्ययकृतो भाव इत्यादि वार्तिकं प्रत्याचक्षाणाः क्त्वादीन्भावएवेच्छन्ति । अत एव समानकर्टकयोरिति सूत्रे स्वशब्देनोपासत्वान्नेति भाष्यप्रतीकमादाय पौर्वापर्यकाले घोसे क्त्वादिविधीयते न तु विषय इति भाव इति कैयटः । यन्तु समानकर्तृकयोः पूर्वकाले इति स्मरणात्कर्ता कायर्थः । अन्यथेष्टकाः पक्त्वाई भोक्ष्ये इत्यत्र मयेति तृतीयाप्रसङ्गात् । न चाख्यातेन कर्तुरभिधानान सेति वाच्यम् । भोजनक्रियाकर्तु रुक्तत्वपि पाकक्रियाकर्तुस्तदभावात् । मनभिहिते भवतीति प. युदासलक्षणाश्रयणात् । न त्वभिहितस्य नेति निषेधस्य । अत एव प्रासादआस्ते इत्यत्र प्रसादनक्रियाधिकरणस्याभिधाने व्याप्तिक्रियाधिकरणस्यानभिधानात्सप्तमीति भाष्यवार्तिकयोः स्पटम् । तस्मात् क्त्वाप्रत्ययेन कत्रभिधानमाश्रित्य तृतीयाभाव उ. पपादनीयः इति परिमले अप्पय्यदीक्षितैरुक्तं, तन्निराचष्टे । समा. नकर्तकत्वादीति । आदिना पूर्वकालिकत्वादिसंग्रहः । द्योतकत्वं च प्रकृत्यर्थयोः संसर्गे तात्पर्यग्राहकत्वम् । अयं भावः । भावो ऽत्र साध्यावस्थापन एव स च धातुनैव लब्धः । तत्र च क्वाप्रकृत्यर्थभूता क्रियान्तरविशेषणम् । तयोः सम्बन्धः सामानाधिकरण्यं तथोत्तरकालिकत्वं पूर्वकालिकत्वं जन्यत्वं व्याप्यत्वं वा । तत्र च तत्तत्सम्बन्धस्य तात्पर्यग्राहकाः क्त्वातुमुनादयः । तथा च भुक्त्वा जति भुक्त्वैवाहं तृप्तो न तु पीत्वा अधीत्य तिष्ठति ईश्वरो ज्ञात्वा तिष्ठतीत्यादौ परेषामिवास्माकमपि बोधः।