SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ क्त्वादिमत्ययार्थनिर्णयः। १४६ भन्यः । अस्तु तारग्रहस्थले सान स्माकमयं दोषः । आधधातुकस्येवलादेरियन बलादित्वविशिष्टमार्धधातुकमनूछविधानसम्भवात् । न चैवं रीत्या ग्रहेष्वपि दोषः । तत्राकांक्षाविरहादिति दिक् ॥ ५८ ॥ नन्वेवं रदाभ्यामित्यतो नकारद्वयलाभो भिन्न इत्यत्र न स्थादित्यत आह ॥ रदाभ्यां वाक्यभेदेन नकारद्वयलाभतः । क्षति वास्ति तन्त्रत्वे विधेये भेदकस्य तु ॥१९॥ चशब्दानुरोधाभाष्यादिसिद्धवाक्यभेदानकारद्वयलाभ इ. त्यर्थः । न च वाक्यभेदे गौरवम् । उक्तरीत्या एकत्वस्यातन्त्रवे तस्यावश्यकत्वादिति भावः । नन्वेवं वृद्धिरेचिं आद्गुण इ. त्यादौ विधेयगतसङ्ख्याविवक्षयैवेष्टसिद्धावेकः पूर्वपरयोरित्यत्रैकग्रहणानर्थक्यामिति चेत् । को दोषः । मात्रालांघवेन हि वैयाकरणाः पुत्रोत्सवं मन्यन्ते । प्रत्याख्यातं चैतद्भाष्यकारादिभिरपीत्यलं पल्लवेन । एवं चास्यच्चावित्यादावनुवाद्यविशेषणत्वान व्यक्तिर्विवक्ष्यते, ग्रहैकत्ववदिति कैयटश्चिन्तनीय इति भावः ॥ ५९॥ इति वैयाकरणभूषणे सङ्ख्याविवक्षा. निरूपणं समाप्तम् ॥ क्त्वाप्रत्ययादीनामर्थं निरूपयति ॥ अव्ययकृत इत्युक्तेः प्रकृत्यर्थे तुमादयः । । समानकर्तृकत्वादि द्योत्यमेषामिति स्थितिः ६०
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy