________________
संख्याविवक्षा निर्णयः ।
लक्ष्यानुरोधात्संख्या च तन्त्रातन्त्रे मते यतः । पश्वेकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५७ ॥
ग्रहं समाष्टत्यत्र वाक्ये उद्देश्य ग्रहगतमेकत्वमविवक्षितमितिवन्नास्माकमुद्देश्यविशेषणाविवक्षानियमः । आर्धधातुकस्येड्वलादेरित्यादावनुवाद्यार्धधातुकविशेषणस्प वलादित्वस्य विवक्षितस्वात् । एवं पशुना यजेतेतिवद् द्विषेयविशेषणं विवक्षितमित्यपि न । रदाभ्यां निष्ठा तो नः पूर्वस्य च द इत्यत्रैकत्वाविवक्षणा त् । तथात्वे वा भिन्न इत्यत्र नकारद्वय लाभो न स्यात् । न च वाक्यभेदात्तलाभः । तत्कल्पनएव गौरवात् । एवमेव चकाराकरणे लाघवतरत्वात् । एवमेतयोरविवक्षैव विवक्षैव वेत्यपि न । उपेयिवाननाश्वाननूचानश्चेत्यत्र नव्प्रभृतोर्विवक्षाया उपेत्य - स्याविवक्षायाश्च स्वीकारात् । इकोयणचीत्यत्राने कयकारापत्तेः । एकत्वस्य विवक्षितत्वादित्यर्थः । पश्वेकत्वादीत्यादिना ग्रहैकस्व संग्रहः । अथ समानप्रत्ययोपान्तेन प्रातिपदिकादपि सन्निहि तेन प्रधानभूतेन च कारकेणावरुद्धमेकत्वं प्रातिपदिकार्थमनाहत्य कियाङ्गमवगम्यमानं वाक्यसमर्पितेन क्रियाविशेषेण सम्बध्य पश्चादरुणैकहायनीन्यायेन पशुनार्थात्सम्बध्यते तादर्ध्य तु यज्ञ प्रत्येवेत्ति पश्वेकत्वाधिकरणोक्तरीत्यात्रापि नकारादिविधायकेषु नकारस्यैकत्वादिविशिष्टस्यैवान्बयोस्तु । युक्तं चैतत् । अन्यथानन्तनकारापत्तेर्दुर्वारत्वात् ॥ ५७ ॥
न च प्रागुदाहृतवाक्यपदीयरीत्येकेन चरितार्थत्वान बहूनामापतिरिति शंक्यम् । भिन्न इत्यत्रापि नकारद्वयानापत्तेः । उभयोरेकेनोपपत्तेः । सवर्णदीर्घगुणादिवत् । एकः पूर्वपरयोरित्ये कग्रहणस्थाने चकारसत्त्वादिति सर्वमभिप्रेत्याह ॥
·