________________
२४६
वैयाकरणभषणे स श्रुत एव । न चैवमप्येषां त्रयाणामेषां वेति विनिगमनाविरहादहूनामालम्भनापत्तिः । अयं पशुः स वेत्यनुरोधेन पशुनेत्यत्राप्यतिप्रसङ्गात् । न चैकवचनेन पर्याप्त्या द्वित्वानाश्रयस्य साधनतोच्यते इति नातिप्रसङ्ग इति वाच्यम् । एकवचनस्य वथा शक्त्यभावेन लक्षणाभ्युपगमे त्रित्वविशिष्टे तस्याः सम्भवातुल्यमेवेति परास्तम् । विधिनिषेधयोर्विरोधवादिनां कपिञ्जलात्रयातिरिक्तालम्भनस्य पापजनकत्वकल्पनापत्तौ गौरवस्य तुल्यत्वाच । तस्मान्नैकत्वत्वेन तत्पतीतिः किं तु सङ्ख्यात्वसामान्यरूपेण । अन्यथा राजपुरुष इत्यादौ राज्ञो राज्ञोर्वेत्यादिजिज्ञासानापत्तेः । इष्टापत्तौ वृद्धिमिच्छतो मूलमपि नष्टमिति न्यायापातः । अनुभवश्च नास्त्येव तथा । तस्मादभेदैकत्वशब्देनैव व्यवहारः कुतः । अभेदद्वित्वादिशब्देनापि तदौचित्यादित्याशङ्कायां कपि
जलान्याय उदाहृतः । प्राथम्यात्तथा व्यवहार इति भाव इति दिक । नव्यास्तु पदार्थैकदेशत्वाद्राजपुरुष इत्यत्र राज्ञस्तत्र सङ्ख्यात्वरूपेणापि न तदन्वय इत्याहुः । समासादौ शक्तिः कल्प्यमाना सङ्ख्याविशिष्टे एव सा करप्येत्यभ्युपगमे तु नायं दोषः । परंत्वनुभवाविरहाज्जिज्ञासानुरोधेन शक्तौ तु ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावाद्विशिष्यैव वाच्यतापत्तेरिष्टापचौ जिज्ञासोच्छेदापत्तेर्मूलोच्छेदाच्छक्तिकल्पनमेवानर्थकमिति वि. भावयाम इति दिक् ॥ ५६ ॥
इति वैयाकरणभूषणे अभेदैकत्व
संख्यानिरूपणं समाप्तम् ॥ संख्याप्रसादुद्देश्यविधेययोः संख्याविवक्षाविवक्षे निरूपयति ॥