________________
२८४
वैयाकरणभूषणे
परीत्यक्तविशेषं वा सङ्ख्या सामान्यमभेदैकत्वसङ्ख्या । उक्तं च | "भेदानां वा परित्यागात्सङ्ख्यात्मा स तथाविधः । व्यापाराज्जाविभागस्य भेदापोहेन वर्त्तते । अगृहीतविशेषेण यथा रूपेण रूपवान् । प्रख्यायते न शुक्लादिभेदापोहस्तु गम्यते " इति । अस्या, वृत्तौ समासादौ भानं न्यायसिद्धमिति शेषः । अयमर्थः । राजपुरुष इत्यादौ राज्ञो राज्ञोः राज्ञां वेति जिज्ञासानुभवाद्विशेषजिज्ञासायाः सामान्यज्ञान पूर्वकत्वनियमात्तद्रूपेण बोधाय शक्तिरावश्यकी । बुध्यते च क्व चिद्विशेषतोपि । यथा द्विपुत्रः पञ्चपुत्र इत्यादौ । एवं तावकीन इत्यादावेकत्वं तवकव्यंग्यम् । विशेषतस्तद्बोधकाभावे चाभेदैकत्वं प्रतीयते । एकत्वत्वरूपेणैव प्रतीयत इत्यत्र न्याये एव बीजमित्याह । कपिञ्जलेति । कपिञ्जलानालभतेत्यत्र बहुवचनेन त्रय एव गृह्यन्ते । गणनायां त्रित्वस्य प्रथमोपस्थितत्वात् । प्रथमोपस्थितत्यागे च मानाभावात् । एवं प्रकृतोपि विशेषतः सङ्ख्याबोधकाभावस्थले प्रथमोपस्थितैकत्वत्यागे मानाभाव इति भावः । अत्र वदन्ति । त्रित्वत्वेन प्रथमोपस्थितौ न नियमः । दशत्वत्वादीनामपि प्रथमोपस्थितत्वात् । गणनायाश्चानियमात् । विपरीतगणनायामपि कस्य चिदुत्पन्नत्वाच्च । अन्यथा पश्येकत्वविवक्षापि न स्यात् । एकत्वस्य गणनायां प्रथमोपस्थितत्वेन न्यायेनैव तदुपस्थितिसम्भवात् । एकवचनं त्वौत्सर्गिकम् | सत्रादुदवसाय - ज्योतिष्टोमेन पृष्ठशमनीयेन यजेरन्नित्यत्र बहुवचनदन्न्यायप्राप्तानुवा दो वा । नन्वेवं सति सङ्ख्याया अङ्गत्वं न स्यात् । तथा च द्वयोरनुष्ठानापत्तिः । एकत्वस्य न्यायेनोपस्थितावपि द्वयोरालम्भने साङ्गयागानुष्ठानापत्तिरिति चेन्न । पशुना यजेतेत्यत्र पशुत्वस्य यागसाधनतोच्यते तच्चैकालम्भनेपि सम्पन्नमिति नाधिकाल -